________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
१७
एषा च शरादीनां करणविधिः प्रसङ्गतोऽत्र दर्शितः, अतः परमुत्तरत्र क्षुद्रहिमवदादिसूत्रेषु स न दर्शयिष्यते विस्त- श्वक्षस्कारे शारभयात्, तजिज्ञासुना तु क्षेत्रविचारवृत्तितो ज्ञेय इति । अथोत्तरार्द्धभरतस्वरूपं पृच्छति-उत्तरभरहस्स ण'मित्यादि । ऋषमकूटाव्यकं, अत्रैव मनुष्यस्वरूपं पृच्छति-'उत्तरड्डभरहे'इत्यादि, इदमपि प्राग्वत्, यावदेके केचन सर्वदुःखानामन्तं कुर्वन्तीति । नन्वत्रत्यमनुष्याणामहदाद्यभावेन मुक्त्यङ्गभूतधर्मश्रवणाद्यभावात् कथं मुक्त्यवाप्तिसूत्रमौचित्यमञ्चति इति चेत् ?, उच्यते, चक्रवर्तिकाले अप्रावृतगुहायावस्थानेन (स्वयं गमनात्) गच्छदागच्छद्दक्षिणार्द्धभरतवासिसाध्वादिभ्यो वाऽन्यदाऽपि विद्याधरश्रमणादिभ्यो वा जातिस्मरणादिना वा मुक्त्यगावाप्तेर्मुक्त्यवाप्तिसूत्रमुचितमेवेति । अथैतत्क्षेत्रवर्तिऋषभकूटं वास्तीति पृच्छति'कहि णं भंते ! जंबुद्दीवे दीवे उत्तरबृभरहे वासे उसभकूडे णाम पवए पण्णत्ते ?, गोअमा ! गंगाकुंडस्स पञ्चत्थिमेणं सिंधुकुंडस्स पुरच्छिमेणं चुल्लहिमवंतस्स वासहरपब्वयस्स दाहिणिल्ले णितंबे, एत्थ णं जंबुद्दीवे दीवे उत्तरड्डभरहे वासे उसहकूडे णाम पवए पण्णत्ते, अट्ठ जोअणाई उर्दू उच्चत्तेणं, दो जोयणाई उलेहेणं, मूले अट्ठ जोअणाई विक्खंभेणं मज्झे छ जोअणाई विक्खंभेणं १ यद्यप्युत्तरभरतार्द्धक्षेत्रे तीर्थदाद्यभावेन अनार्यदेशोत्पन्नत्वेन च तत्रत्यानां मनुजानां धर्मप्राप्तिसामध्यभावः तथापि चैत्यनमस्कारादिप्रयोजनवशेन तत्रगताना विद्याधरादिसाधूनां जिनप्रतिमानां च दर्शनतः कर्मणां क्षयोपशमवैचित्र्यात् आईकुमारादय इव जातजातिस्मृतयः चक्रवादिकाले च तत्रोत्पन्ना अपीह तीर्थकृदादिसमीपे धर्मश्रवणादिनाध्याप्तबोधयः तथाविधभव्यत्वपरिपाकवशेनावाप्तकेवलझानास्तत्रापि सिध्यंति यावनिर्वान्ति नात्र किंचिद्बाधक, च चानार्यदेशोत्यमत्वमेव तत्र बाधकमिति वाच्यं, आर्द्रकुमारादेश्चक्रवर्तिस्त्रीणां च सम्यक्त्वादिप्राप्तिश्रुतेस्तस्याबाधकत्वात् । (श्रीहीर• वृत्ती.)
॥८६
Jain Education Inte
For Private
Personel Use Only
ainelibrary.org