________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
11 64 11
Jain Education Inte
| नामाम्वर्थो विजयद्वारवंद् ज्ञेयः, सदृशनामकस्वामिकत्वात्, 'अदुत्तरं च ण' मित्यादि प्राग्वत् । अथोत्तरार्द्ध भरतवर्ष कास्तीति प्रश्नसूत्रमाह - 'कहि ण' मित्यादि, दक्षिणार्द्धभरतसमगमकत्वेन व्यक्तं, नवरं 'पलिअंक'त्ति पर्यङ्कवत् संस्थितंसंस्थानं यस्य तत्तथा, द्वे शते अष्टत्रिंशदधिके त्रीकोनविंशतिभागान् योजनस्य विष्कम्भेनेति, अस्य शरस्तु प्राच्यशरसहित स्वक्षेत्र विस्तारो योजनतः ५२६-६, कलास्तु १०००० । अथास्य बाहें आह - ' तस्स बाहा' इत्यादि, तस्योत्तरार्द्ध भरतस्य बाहा - पूर्वोक्तस्वरूपा पूर्वापरयोर्दिशोरेकैका अष्टादश योजनशतानि द्विनवतियोजनाधिकानि सप्त चैकोनविंशतिभागान् योजनस्य अर्द्धभागं चैकोनविंशतितमभागस्य, योजनस्याष्टत्रिंशत्तमभागमित्यर्थः, अत्र करणं यथा- गुरु धनुःपृष्ठ कलारूपं २७६०४२ अस्मात् २०४१३१ कलारूपं लघु धनुःपृष्ठं शोध्यते, जातं ७१९११, अर्द्ध कृते जातं कला ३५९५५ कलार्द्धं च, तासां योजनानि १८९२ कलाः ७ कलार्द्ध चेति एतचैकैकस्मिन् पार्श्वे बाहाया आयाममानं । अथास्य जीवामाह - 'तस्स जीवा उत्तरे णमित्यादि, तस्य जीवा- प्रागुक्तस्वरूपा उत्तरेण-क्षुद्रहिमवद्भिरिदिशि प्राचीनप्रतीचीनायता द्विधा लवणसमुद्रं स्पृष्टा तथैव-दक्षिणार्द्ध भरतजीवासूत्रवदेव 'जाव' त्ति 'पच्चत्थिमिलं लवणसमुद्दे पुढे 'ति पर्यन्तं सूत्रं ज्ञेयमिति भावः, 'चउदस' त्ति चतुर्दश योजनसहस्राणि चत्वारि चैकसप्तत्यधिकानि योजनशतानि षट् चैकोनविंशतिभागान् योजनस्य किञ्चिद्विशेषोनान् आयामेन प्रज्ञप्ता, अत्र करणं यथा- कलीकृतों जम्बूद्वीपव्यासः १९ शून्य ५, इषूनितः १८९ शून्य ४, इषुगुणः १८९ शून्यः ८, चतुर्गुणः ७५६ शून्य ८, एष उत्तरभरतार्द्धजीवावर्ग:, अस्य
For Private & Personal Use Only
१वक्षस्कारे वैताढ्यनिरुक्तिः उत्त
रभरतव.
सू. १६
॥ ८५ ॥
jainelibrary.org