________________
Jain Education In
नि ज्ञातव्यानि यत्त्वत्र वैताढ्यप्रकरणे सर्वपर्वतगतकूटज्ञापनं तत्सर्वेषामेकवर्णकत्वेन लाघवार्थ, तथा वैताढ्यस्येत्यत्र जात्यपेक्षयैकवचनं तेन सर्वेषामपि वैताढ्यानां भरतैरावतमहाविदेहविजयगतानां नवसु कूटेषु सर्वमध्यमानि श्रीणि त्रीणि कूटानि कनकमयानि ज्ञातव्यानि, एतदेव वैताढ्ये व्यक्त्या दर्शयति- ' माणिभद्द' इत्यादि, द्वयोः कूटयोर्विसंह शनामकी देवी स्वामिनौ, तद्यथा - कृतमालकश्चैव नृत्तमालकश्चैव तमिस्रगुहाकूटस्य कृतमालः स्वामी खण्डप्रपातगुहाकूटस्य नृत्तमालः स्वामी, शेषाणां षण्णां कूटानां सहकू - कूटनामसदृशं नाम येषां ते सहग्नामका देवाः स्वामिनः, यथा दक्षिणार्ध भरतकूटस्य दक्षिणार्द्ध भरतकूटनामा देवः स्वामी, एवमन्येषामपि भावना कार्या, एनमेवार्थं सविशेषं गाथबाsse - यन्नामकानि कूटानि तन्नामानः खलुर्निश्चये भवन्ति देवाः पल्योपमस्थितिका भवन्ति, प्रत्येकं २ प्रतिकूटमि त्यर्थः, एतेनाष्टानां कूटानां स्वामिन उक्ताः, सिद्धायतनकूटे तु सिद्धायतनस्यैव मुख्यत्वेनं तत्स्वामिदेवानभिधानमिति, ननु दक्षिणार्द्ध भरतकूटानां स्वसदृशनामकदेवाश्रयभूतत्वात् नामान्वर्थः सङ्गच्छते, यथा दक्षिणार्द्ध भरतमाम देवस्वामिकत्वादुपचारेण दक्षिणार्द्ध भरतनामा देवः स्वामित्वेनास्यास्तीति अनादित्वादप्रत्यये वा दक्षिणार्द्ध भरतं, एवमन्येष्वपि, परं खण्डप्रपात गुहाकूटतमिस्रगुहाकूटयोः स कथं १, तत्स्वामिनोत्तमालकृतमालयोर्विसदृशनामकत्वात् न च खण्डप्रपातगुहाया उपरिवर्त्ति कूटं खण्डप्रपातगुहाकूटमित्यादिरेवान्वर्थोऽस्त्विति वाय, अत्र सूत्रे दक्षिणार्ज भरतकूटवत् शेषकूटानामतिदेशात् बृहत्क्षेत्रसमासवृत्तौ “एवं शेषकूटान्यपि स्वस्वाधिपतियोगतः प्रवृत्तान्यवसेयानी" ति श्रीमलयगि
For Private & Personal Use Only
www.jainelibrary.org