SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ सोलसजोषणाई आयामविक्खंभेणं अट्ट जोअणाई उच्चत्तण ति, तथा विजयाराजधान्यामपि तस्स णं सिद्धाययणस्स बहुमज्झदेसभाए, एत्थ णं महं एगा मणिपेढिा पण्णत्ता दो जोअणाई आयामविक्खंभेणं जोअणं बाहल्लेणं सबमणि18| मया अच्छा जाव पडिरूवा' इति, स च देवच्छन्दकः पञ्चधनुःशतान्यायामविष्कम्भाभ्यां सातिरेकाणि साधिकानि पञ्चधनुःशतान्यूर्वोच्चत्वेन सर्वात्मना रत्नमयः, तत्र देवच्छन्दकेऽष्टशतं-अष्टोत्तरं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां-जिनोत्सेधः-तीर्थकरशरीरोच्छ्रायः, तस्य च प्रमाणं उत्कृष्टतः पञ्चधनुःशतात्मकं जघन्यतः सप्तहस्तात्मक इह च पञ्चधनु शतात्मकं गृह्यते, तदेव मात्रा-प्रमाणं यासां तास्तथा तासां, तथा जगत्स्वाभाव्यात् , देवच्छन्दकस्य चतुर्दिा प्रत्येकं सप्तविंशतिभावेन सन्निक्षिप्तं तिष्ठति, ननु पद्मवरवेदिकादय इव शाश्वतभावरूपा जिनप्रतिमा भवन्तु, परं प्रतिष्ठितत्वाभावेन तासामाराध्यत्वं कथमिति चेत्, उच्यते, शाश्वतभावा इव शाश्वतभावधर्मा अपि सहजसिद्धा एव भवन्ति, तेन शाश्वतप्रतिमा इव शाश्वतप्रतिमाधर्मा अपि प्रतिष्ठितत्वाराध्यत्वादयः सहजसिद्धा एवेति, किं॥ १तत्र जिनोत्सेधो जघन्यतः सप्त हस्ताः उत्कर्षतः पञ्च धनुःशतानि, परमिह तिर्यग्लोकवर्तित्वेन पञ्चधनुःशतानामित्यर्थः, यदुक्तं "तत्थुस्सेहंगुलओ सत्तकरा उद्दलोअअहलोए । सासयपडिमा बंदे पणधणुसयमाण तिरिलोए ॥१॥" इति, यत्तु राजप्रश्नीयोपांगवृत्तौ सूर्याभविमाने जिनप्रतिमानामुत्सेधमधिकृत्य इह तु पंचधनुःशतानि संभाव्यन्ते इति भणितं तत्र सूक्ष्मदृशां पर्यालोचनायाः संभावनाया अपि संभावनैव विजृम्भते, पर्यालोचनात्वेव-देवानां भवधारणीयशरीरेण || ताहातिमानां पूजाकरणादावसंगतमिवाभाति, न चैवं तिर्यग्लोकेऽपि समान, यतो देवानां वैक्रियशरीरेण मनुजानां च भरतादिकारितजिनप्रतिमापूजने तदुचितप्रमाणवतैव शरीरेण नासंगतिगन्धोऽपि, (उभयत्रापि वैक्रियकृतिरस्त्येव, तिर्यग्लोके विद्याधराणां सातिशयत्वान क्षतिः) (हीर. वृत्तौ) S9999999999 । Jain Education international For Private Personal Use Only law.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy