SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ श्री जम्बू. १४ | पद्मवरंवेदिकादिवर्णनायाह -- ' से ण' मित्यादि व्यक्तं, अथ सिद्धायतनकूटस्योपरि भूभागवर्णनायाह - 'सिद्धायतण' | इत्यादि प्राग्वत्, अथात्र जिनगृहवर्णनायाह - 'तस्स ण' मित्यादि, तस्य - बहुसमरमणीयस्य भूमिभागस्य बहुमध्य| देशभागे अत्र महदेकं सिद्धानां - शाश्वतीनामर्हत्प्रतिमानामायतनं स्थानं चैत्यमित्यर्थः प्रज्ञप्तं क्रोशमायामेनार्द्धक्रोशं विष्कम्भेन देशोनं क्रोशमूवोच्चत्वेन, देशश्चात्र षष्ट्यधिकपञ्चशतधनूरूप इति, यत उक्तं वीरंजयसेहरेत्यादिक्षेत्रविचा| रस्य वृत्तौ - 'ताणुवरि चेहरा दहदेवीभवणतुलपरिमाणा' इत्यस्या गाथाया व्याख्याने "तेषां वैताढ्यकूटानामुपरि चैत्यगृहाणि द्रहदेवीभवनतुल्यपरिमाणानि वर्त्तन्ते, यथा श्रीगृहं क्रोशैकदीर्घं क्रोशार्द्धविस्तारं चत्वारिंशदधिकचतुर्दशशतधनुरुच्च "मिति, तथा अनेकेषु स्तम्भशतेषु संनिविष्टं, तदाधारकत्वेन स्थितमित्यर्थः, तथा स्तम्भेषु उगता - संस्थिता. सुकृतेव सुकृता निपुणशिल्पिरचितेवेति भावः ततः पदद्वयस्य कर्मधारयः, तादृशी वज्रवेदिका - द्वारशुण्डिकोपरि व| ज्ररलमयी वेदिका तोरणं च स्तम्भोद्गतसुकृतं यत्र तत्तथा, तथा वराः - प्रधाना रतिदा-नयनमनःसुखकारिण्यः सालभंजिका येषु ते तथा मुश्लिष्टं सम्बद्धं विशिष्टं प्रधानं लष्टं - मनोज्ञं संस्थितं संस्थानं येषां ते तथा ततः पदद्वयकर्मधारये तादृशाः प्रशस्ताः - प्रशंसास्पदीभूता वैडूर्यविमलस्तम्भा यत्र तत्तथा ततः पूर्वपदेन कर्मधारयः, तथा नानाम| णिरत्नानि खचितानि यत्र स नानामणिरत्नखचितः, निष्ठान्तस्य परनिपातः भार्यादिदर्शनात्, तादृश उज्वलो -निर्मलो बहुसमः - अत्यन्तसमः सुविभको भूमिभागो यत्र तत्तथा, 'ईहामिगे' त्यादि प्राग्वत् व्याख्येयं, नवरं मरीचिकवचं - किर For Private & Personal Use Only wjainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy