SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः 11 12 11 Jain Education Inte कियत्प्रमाणमित्याह - 'छ सकोसाई' इत्यादि, सक्रोशानि षड् योजनान्यूवोंच्चत्वेन मूले सक्रोशानि षट् योजनानि विष्कम्भेन मध्ये देशोनानि पञ्च योजनानि, सपादक्रोशन्यूनानि पञ्च योजनानीत्यर्थः, विष्कम्भेन, उपरि सातिरेकाणि त्रीणि योजनानि, अर्द्धकोशाधिकानि त्रीणि योजनानीत्यर्थः, विष्कम्भेनेति, अथास्य शिखरादधोगमनेन विवक्षितस्थाने पृथुत्वज्ञानाय करणमुच्यते - शिखरादवपत्य यावद्योजनादिकमतिक्रान्तं तावत्प्रमाणे योजनादिके द्विकेन भक्ते कूटोत्सेधा| र्द्धयुक्ते च यज्जायते तदिष्टस्थाने विष्कम्भः, तथाहि - शिखरात् किल त्रीणि योजनानि क्रोशार्द्धाधिकान्यवतीर्णः, ततो योजनत्रयस्य क्रोशार्द्धाधिकस्य द्विकेन भागे लब्धाः षट् क्रोशाः क्रोशस्य च पादः, कूटोत्सेधश्च सक्रोशानि षड् योजनानि, अस्यार्द्ध योजनत्रयी क्रोशार्द्धाधिका, अस्मिंश्च पूर्वराशौ प्रक्षिप्ते जातानि सपादक्रोशोनानि पञ्च योजनानि, इयान् मध्यदेशे विष्कम्भः एवमन्यत्रापि प्रदेशे भावनीयं । तथा मूलादूर्ध्वगमने इष्टस्थाने विष्कम्भपरिज्ञानाय करणमिदं - मूलादतिक्रान्तयोजनादिके द्विकेन भक्ते लब्धं मूलव्यासाच्छोध्यतेऽवशिष्टमिष्टस्थाने विष्कम्भः, तथाहि - मूलात् त्रीणि योजनानि शार्द्धाधिकानि ऊर्ध्वं गतः, अस्य द्विकेन भागे लब्धाः ६ क्रोशाः क्रोशस्य च पादः, एतावान् मूलव्यासात् शोध्यते, शेषं पञ्च योजनानि सपादक्रोशोनानि, इयान् मध्यभागे विष्कम्भः, एवमन्यत्रापि प्रदेशे भाव्यं, इमे चारोहावरोहकरणे शेषेषु वैताढ्यकूटेषु पञ्चशतिकेषु हिमवदादिकूटेषु सहस्राङ्केषु च हरिस्सहादिकूटेषु अष्टयोजनिकेषु च ऋषभकूटेष्ववतारणीये, वाचनान्तरोकमानापेक्षया तु ऋषभकूटेषु करणं जगतीवदिति । अस्य च For Private & Personal Use Only १ वक्षस्कारे | सिद्धायतनवर्णनं सू. १३ ॥ ७८ ॥ jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy