SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte अतिनिचिततया वर्चुलो वग्घारिअत्ति- प्रलम्बितो माल्यदामकलापः- पुष्पमालासमूहो येषु तानि तथा, पञ्चवर्णाः सरसाः सुरभयो ये मुक्ताः - करप्रेरिताः पुष्पपुञ्जास्तैर्य उपचार: - पूजा भूमेस्तेन कलितानि, 'कालागरु' इत्यादि विशेषणत्रयं प्राग्वत्, अप्सरोगणानां संघः - समुदायः तेन सम्यग् - रमणीयतया विकीर्णानि - व्याप्तानि, तथा दिव्यानां त्रुटितानां| आतोद्यानां ये शब्दास्तैः सम्यक् - श्रोतृमनोहारितया प्रकर्षेण - सर्वकालं नदितानि - शब्दवन्ति 'सवरयणामया' इत्यादि पदानि प्राग्वत्, 'तत्थ ण' मित्यादि, गतार्थमेतत् । अथ वैताढ्यस्य शिखरतलमाह - 'तासि ण' मित्यादि, तयो:| अभियोग्य श्रेण्योर्बहुसमरमणीयाद्भूमिभागाद्वैतान्यस्य पर्वतस्योभयोः पार्श्वयोः पञ्च पञ्च योजनान्यूर्द्धमुत्पत्य- गत्वा | अत्रान्तरे वैताढ्यस्य पर्वतस्य शिखरतलं प्रज्ञप्तं, 'पाईणे' त्यादि प्राग्वत्, तच्च शिखरतलं एकया पद्मवरवेदिकया तत्परिवेष्टकभूतेन चैकेन वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तं, अयं भावः - यथा जगती मध्यभागे पद्मवर वेदिकै कैव | जगतीं दिक्षु विदिक्षु वेष्टयित्वा स्थिता तथेयमपि सर्वतः शिखरतलं पर्यन्ते वेष्टयित्वा स्थिता, परमेषा आयतचतुरस्राकारशिखरतलसंस्थितत्वेनाय तचतुरस्रा बोद्धव्या, अत एवैकसंख्याका, तत्परतो बहिर्वर्त्ति वनखण्डमप्येकं, न तु वैताढ्य - | मूलगतपद्मवर वेदिकावने इव दक्षिणोत्तरविभागेन द्वयरूपे इति, श्रीमलयगिरिपादास्तु क्षेत्रविचार बृहद्वृत्तौ " तन्मध्ये | पद्मवर वेदिको भयपार्श्वयोर्वनखण्डा" वित्याहुः, प्रमाणं- विष्कम्भायामविषयं, वर्णकश्च द्वयोरपि पद्मवरवेदिकावनखण्डयोः, प्राग्वद्भणितव्य इत्यध्याहार्यं, अथ शिखरतलस्य स्वरूपं पृच्छति - 'वेअद्धस्स ण' मित्यादि, एतत्सर्वं जगतीगत For Private & Personal Use Only jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy