________________
Jain Education
| कर्षकादिप्रयोगनिष्पन्नैः अकृत्रिमैः क्रमाद्रलखानिसंभूतानुससम्भूतैरुपशोभितो दक्षिणार्द्धभरतस्य भूमिभागः, अ| नास्य कर्मभूमित्वमभाणि, अन्यथा हैमवताद्यकर्मभूमिष्वपि इदं विशेषणमकथयिष्यदिति, चकारौ समुच्चयार्थी एवकाराववधारणार्थौ, अथवा चैवेत्यखण्डमव्ययं समुच्चयार्थं, अपिचेत्यादिवत्, ननु अनेन सूत्रेण वक्ष्यमाणेनोत्तरभरतार्द्धवर्णकसूत्रेण च सह 'खाणुबहुले विसमबहुले कंटगबहुले' इत्यादिसामान्यभरतवर्णकसूत्रं विरुध्यति, न चैते सूत्रे | अरकविशेषापेक्षे सामान्यभरतसूत्रं तु प्रज्ञापककालापेक्षमिति न विरोध इति वाच्यं, मणीनां तृणानां च कृत्रिमत्वाकृत्रिमत्व भणनेनानयोरपि प्रज्ञापककालीनत्वस्यैवौचित्यात्, कृत्रिममणितृणानां तत्रैव सम्भवात्, प्रज्ञापककालश्चावसर्पिण्यां तृतीयारकप्रान्तादारभ्य वर्षशतोनदुष्षमारकं यावदिति चेत्, उच्यते, अत्र 'खाणुबहुले विसमबहुले' इत्यादिसूत्रस्य बाहुल्यापेक्षयोक्तत्वेन क्वचिदेशविशेषे पुरुषविशेषस्य पुण्यफलभोगार्थमुपसम्पद्यमानं भूमेर्बहुसमरमणीयत्वादिकं न विरुध्यति, भोजकवैचित्र्ये भोग्यवैचित्र्यस्य नियतत्वात्, अनेनास्यैकान्तशुभैकान्ताशुभमिश्रलक्षणकालत्रयाधार| कत्वमसूचि, एकान्तशुभे हि काले सर्वे क्षेत्रभावाः शुभा एव एकान्ताशुभे हि सर्वे अशुभा एव मिश्रे तु क्वचिच्छुभाः कचिदशुभाः, अत एव पश्चमारकाद् यावद्भूमिभागवर्णकं बहुसमरमणीयत्वादिकमेव सूत्रकारेणाभ्यधायि षष्ठेऽरके तु एकान्ताशुभे न तथेति सर्वं सुस्थं । अथ तत्रैव मनुष्यस्वरूपं पृच्छति - 'दाहिणद्धभरहे 'त्यादि प्रश्नसूत्रं प्राग्वत्, निर्वच|नसूत्रे भगवानाह - गौतम ! येषां स्वरूपं भवता जिज्ञासितं ते मनुजा बहूनि - वज्रऋषभनाराचादीनि संहननानि - वपुर्द
For Private & Personal Use Only
www.jainelibrary.org