________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥ ६९ ॥
Jain Education Internation
विवक्षितेषौ विवक्षितेषुगुणे पुनः षड्गुणे विवक्षितजीवावर्गयुते च यो राशिः स धनुःपृष्ठवर्ग इति व्यपदिश्यते, तस्माच्च वर्गमूले लब्धाना कलानां १९ भागे लब्धं योजनानि, अवशिष्टं कलाः, तथाहि - दक्षिणभरतार्द्धेषुकलाः ४५२५, अस्य वर्ग: २०४७५६२५, अयं षड्गुणः १२२८५३७५०, अथ दक्षिणभरतार्द्धस्य जीवावर्गः ३४३०८०९७५००, अनयोयुति: ३४४३०९५१२५०, धनुःपृष्ठवर्गोऽयं, अस्य वर्गमूले लब्धं कलाः १८५५५५, शेषं कलांशाः २९३२२५, छेदकराशिरधस्तात् ३७१२१०, कलानां १९ भागे योजन ९७६६ कला १, ये च वर्गमूलावशिष्टाः कलांशास्तद्विवक्षया |च सूत्रकृता कलाया विशेषाधिकत्वमभ्यधायि, आह एवं जीवाकरणेऽपि वर्गमूलावशिष्टकलांशानां सद्भावात् तत्राप्युक्तकलानां साधिकत्वप्रतिपादनं न्यायप्राप्तं कथं नोक्तमिति १, उच्यते, सूत्रगतेर्वैचित्र्यादविवक्षितत्वात्, 'विवक्षा| प्रधानानि हि सूत्राणीति, एवं वैताढ्यादिधनुः पृष्ठेष्वपि भाव्यं यावद्दाक्षिणात्यविदेहार्द्धधनुः पृष्ठं, एवमुत्तरत उत्तरैरावतार्द्धधनुःपृष्ठं यावदुत्तरार्द्धविदेहधनुःपृष्ठमपीति, अत्र च दक्षिणभरतार्द्धे बाहाया असम्भवः । अथ दक्षिणभरतार्द्धस्वरूपं पृच्छन्निदमाह - 'दाहिणद्धेत्यादि, दक्षिणार्द्ध भरतस्य भगवन् ! कीदृशः आकारस्य - स्वरूपस्य भावा:- पर्याया| स्तेषां प्रत्यवतारः - प्रादुर्भावः प्रज्ञप्तः १, कीदृशः प्रस्तुतक्षेत्रस्य स्वरूपविशेष इति भावः, भगवानाह - गौतम ! भरतस्य बहुसमरमणीयो भूमिभागः प्रज्ञप्तः 'से जहाणामए आलिंगपुक्खरेइ वे'त्यादिको बहुसमत्ववर्णकः सर्वोऽपि ग्राह्यः यावन्नानाविधपञ्चवर्णैः मणिभिस्तृणैश्चोपशोभितः, तद्यथेत्युपदर्शने, किंविशिष्टैर्मणिभिस्तृणैश्च ! - कृत्रिमैः - क्रमेण शिल्पि
For Private & Personal Use Only
१ वक्षस्कारे दक्षिणमरतार्थ सू. ११
॥ ६९ ॥
www.jainelibrary.org