________________
Jain Education In
राशिर्विषक्षितक्षेत्रस्य जीवावर्ग इत्युच्यते, अस्माच्च मूले गृह्यमाणे यलभ्यते तज्जीवाकलामानं, तस्य चैकोनविंशत्या भांगे योजनराशिःः शेषश्च कलाराशिः, तत्र जीवादिपरिज्ञानं चेषुपरिमाणपरिज्ञानाविनाभावि तच्च न परिपूर्णयोजनसंख्याङ्कं किन्तु कलाभिः कृत्वा सातिरेकमिति विवक्षितक्षेत्रा देरिषुः सवर्णनाथं कलीक्रियते, स च कलीकृतादेव जम्बूद्वीपव्यासात् सुखेन शोधनीय इति मण्डलक्षेत्रव्यासोऽपि १ शून्य ५ रूपः कलीकरणायैकोनविंशत्या गुण्यते, जातः १९ शून्यः ५, ततो दक्षिणभरतार्थेषोः साष्टत्रिंशद्विशतयोजनमितस्य कलीकृतस्य प्रक्षिप्तों परितनकलात्रिकस्य ४५२५ रूपस्य शोधने जातः १८९५४७५, ततश्च दक्षिणार्द्धषुणा ४५२५ रूपेण गुण्यते जातः, ८५७७०२४३७५ अयं चतुर्गुणः ३४३०८०९७५००, एष दक्षिण भरतार्द्धस्य जीवावर्गः, एतस्य वर्गमूलानयनेन लब्धाः कलाः १८५२२४, शेषं कलांशाः १६७३२४, छेदराशिरधः ३७०४४८, लब्धकलानां १९ भागे योजन ९७४७ कलाः १२, इयं दक्षिणभरतार्द्धजीवा, एवं वैताढ्यादिजीवास्वपि भाव्यं यावद्दाक्षिणात्यविदेहार्द्धजीवा, एवमुत्तरैरावतार्द्धजीवा यावदुत्तरार्द्ध| विदेहजीवापीति । अथ दक्षिणभरतार्द्धस्य धनुःपृष्ठं निरूपयति — 'तीसे धणुपट्टे' इत्यादि, तस्याः - अनन्तरोकाया जीवाया दक्षिणतो- दक्षिणस्यां दिशि लवणदिशीत्यर्थः धनुःपृष्ठं अधिकारात् दक्षिणभरतार्द्धस्येति यद्वा प्राकृतत्वालिङ्गव्यत्यये तीसे इति तस्य दक्षिणार्द्धभरतस्येति व्याख्येयं, नव योजनसहस्राणि षट्षष्ट्यधिकानि सप्त च योजनशतानि एकं चैकोनविंशतिभागं योजनस्य किञ्चिद्विशेषाधिकं परिक्षेपेण-परिधिना प्रज्ञतं, अत्र करणभावना यथा
For Private & Personal Use Only
jainelibrary.org