________________
18 संस्थानतो विशिनष्टि-उत्तरतः-उत्तरस्यां दिशि पर्यङ्कस्येव संस्थितं-संस्थानं यस्य तत्तथा, दक्षिणतो-दक्षिणस्यां दिशि SI IS आरोपितज्यस्य धनुषः-कोदण्डस्य पृष्ठ-पाश्चात्यभागस्तस्येव संस्थितं-संस्थानं यस्य तत्तथा, अत एवास्य धनुःपृष्ठशर
जीवाबाहानां सम्भवः, एषां च स्वरूपं स्वस्वावसरे निरूपयिष्यति, त्रिधा-पूर्वकोटिधनुःपृष्ठापरकोटिभिलवणसमुद्र1 क्रमेण पूर्वदक्षिणापरलवणसमुद्रावयवं स्पृष्टं-धातूनामनेकार्थत्वात् प्राप्तं, ग्रामप्राप्त इत्यादिवत् कर्तरि तप्रत्ययः, A अयमर्थः-पूर्वकोट्या पूर्वलवणसमुद्रं धनुःपृष्ठेन दक्षिणलवणसमुद्रं अपरकोट्या पश्चिमलवणसमुद्रं संस्पृश्य स्थितमिति,
अथेदमेव षट्खण्डविभजनद्वारा विशिनष्टि-गङ्गासिन्धुभ्यां महानदोभ्यां वैताढ्येन च पर्वतेन षट्संख्या भागाः षड्भागा|स्तैर्विभक्तं, अयमर्थः-अनन्तरोदितैत्रिभिर्दक्षिणोत्तरयोः प्रत्येक खण्डत्रयकरणेन भरतस्य षट् खण्डानि कृतानीति । अथ 18|| यदि जम्बूद्वीपैकदेशभूतं भरतं तर्हि विष्कम्भतः तस्य कतितमे भागे तदित्याह-'जंबुद्दीवेत्यादि, जम्बूद्वीपद्धीपस्य-जम्बू४ाद्वीपविष्कम्भस्य नवत्यधिकशततमो यो भागस्तस्मिन् इति, अथ नवत्यधिकशततमभागे कियन्ति योजनानीत्याह-'पञ्च | षड्विंशत्यधिकानि योजनशतानि षट् च योजनस्यैकोनविंशतिभागान् , कोऽर्थः-यादृशैरेकोनविंशतिभागैः समुदि
तेोजनं भवति तादृशान् पट् भागान् इति, विष्कम्भेन-विस्तारेण शरापरपर्यायेणेति, अत्राङ्कस्थापना यथा-५२६18, अयं भावः-जम्बूद्वीपविस्तारस्य लक्षयोजनरूपस्य नवत्यधिकशतेन भागे लब्धं ५२६ योजनानि एतावानेव च
भरतविस्तारः, ननु भाजकराशिर्नवत्यधिकशतरूपः षड्भागास्तु योजनैकोनविंशतिकलारूपा इति विसदृशमिव प्रति
900000029292929092029290920000
99999999
totke
ForPrivate&Personal use Only
Owainelibrary.org