________________
Jain Education Int
गुच्छबहुले गुम्मबहुले लयाबहुले वल्लीबहुले अडवीबहुले सावयबहुले तणबहुले तकरबहुले डिम्बबहुले डमरबहुले दुब्भिक्खबहुले दुक्कालबहुले पासंडबहुले किवणबहुले वणीमगबहुले ईतिबहुले मारिबहुले कुबुट्टिबहुले अणावुट्टिबहुले रायबहुले रोगबहुले संकि बहु अभिक्खणं अभिक्खणं संखोहबहुले पाईणपडीणायए उदीणदाहिणविच्छिष्णे उत्तरओ पलिअंकसंठाणसंठिए दाहिणओ धणुपिठि तिधा लवणसमुदं पुढे गंगासिंधूहिं महाणईहिं वेअड्डेण य पइएण छब्भागपविभत्ते जंबुद्दीवदीवणउयसयभागे पंचछबीसे जोअणसए छञ्च एगूणवीसइभाए जोअणस्स विक्खंभेणं । भरहस्स णं वासस्स बहुमंज्झदेसभाए एत्थ णं वेअड्डे णामं पवए पण्णत्ते, जे णं भरहं वासं दुहा विभयमाणे २ चिट्ठई, तं० – दाहिणडभरहं च उत्तरडभरहं च (सूत्रं १० )
'कहि णं भंते 'ति प्रच्छकापेक्षया आसन्नत्वेन प्रथमं भरतस्यैव प्रश्नसूत्रं, व भदन्त ! जम्बूद्वीपे द्वीपे भरतं नाम्ना वर्ष प्रज्ञतं ?, भगवानाह - गौतम ! 'चुल्लहिमवंते 'त्यादि, चुल्लशब्दो देश्यः क्षुल्लपर्यायस्तेन क्षुल्लो-महाहिमवदपेक्षया लघुर्यो हिमवान् वर्षधरपर्वतः क्षेत्र सीमाकारी गिरिविशेषस्तस्य दक्षिणेन दक्षिणस्यां दिशि दाक्षिणात्यलवणसमुद्रस्योत्तरस्यां पौरस्त्यलवणसमुद्रस्य पश्चिमायां पाश्चात्य लवणसमुद्रस्य पूर्वस्यां दिशि अत्रावकाशे भरतं नाम्ना वर्ष प्रज्ञप्तं, किंविशिष्टं तदित्याह - स्थाणवः - कीलका ये छिन्नावशिष्टवनस्पतीनां शुष्कावयवाः टुंठा इति लोकप्रसिद्धाः तैर्बहुलं प्रचुरं व्याप्तमित्यर्थः अथवा स्थाणवो बहुला यत्र तत्तथा, एवं सर्वत्र पदयोजना ज्ञेया, तथा कण्टका-बदर्यादिप्रभवाः विषमं निम्नोन्नतं स्थानं दुग्र्ग-दुर्गमं स्थानं पर्वताः - क्षुद्रगिरयः प्रपाता भृगवो यत्र मुमूर्षवो जना झम्पां ददति अथवा प्रपाता-रात्रिधाट्यः अवझरा-गिरितटादुदकस्याधःपतनानि तान्येव
For Private & Personal Use Only
jainelibrary.org