SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ जयन्ता राजधानी अपराजितद्वारस्य चोत्तरस्यां दिशि अपराजिता राजधानी तिर्यगसंख्येयान द्वीपसमुद्रान् व्यतिव्रज्येति | वाच्यं । सम्पति विजयादिद्वाराणां परस्परमन्तरं प्रतिपिपादयिषुराह जंबुद्दीवस्स णं भंते ! दीवस्स दारस्स य दारस्स य केवइए अबाहाए अंतरे पण्णत्ते ?, गो० ! अउणासीइं जोअणसहस्साईबावण्णं च जोअणाई देसूर्ण च अद्धजोअणं दारस्स य २ अबाहाए अंतरे पण्णत्ते, अषणासीइ सहस्सा बावणं चेव जोअणा हुंति । ऊणं च अद्धजोमण दारंतर जंबुद्दीवस्स ॥१॥ (सूत्रं ९) 'जंबुद्दीवस्स ण'मित्यादि, जम्बूद्वीपस्य, णमिति प्राग्वत् , भदन्त !द्वीपस्य सम्बन्धिनो द्वारस्य च द्वारस्य च कियत्किंप्रमाणं 'अवाहाए अंतरे'त्ति बाधा-परस्परं संश्लेषतः पीडनं न बाधाऽबाधा तयाऽबाधया यदन्तरं व्यवधानमित्यर्थः प्रज्ञप्तं, इहान्तरशब्दो मध्यविशेषादिष्वर्थेषु वर्तमानो दृष्टस्ततस्तद्व्यवच्छेदेन व्यवधानार्थपरिग्रहार्थमबाधाग्रहणं, ॥॥ अत्र निर्वचनं भगवानाह-गौतम ! एकोनाशीतिर्योजनसहस्राणि द्विपञ्चाशद्योजनानि देशोनं चार्द्धयोजनं द्वारस्य च द्वारस्य चाबाधया अन्तरं प्रज्ञप्तं, तथाहि-जम्बूद्वीपपरिधिः प्राग्निर्दिष्टो योजनानि तिम्रो लक्षाः षोडश सहस्राणि द्वे शते सप्तविंशत्यधिक ३१६२२७ क्रोशत्रयं ३ अष्टाविंशं धनुःशतं १२८ त्रयोदशाङ्गुलानि १३ एकमर्दाङ्गुल १ मिति, अस्माद् द्वारचतुष्कविस्तारोऽष्टादशयोजनरूपोऽपनीयते, यत एकैकस्य द्वारस्य विस्तारो योजनानि चत्वारि ४ प्रतिद्वार द्वारशाखाद्वयविस्तरश्च क्रोशद्वयं २, अस्मिंश्च द्वारस्य शाखयोश्च. परिमाणे चतुर्गुणे जातान्यष्टादश योजनानि १८, Jain Education into For Private Persone Use Only ONainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy