SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ मयाऽन्यैश्च तीर्थकृद्भिरित्यादि तावद् वाय-यावन्निर्गमनसूत्रे विजयो देवो २ इति, अत्र च प्रारब्धोऽपि जीवाभिगमोक्तविजयानामराजधानीवर्णकः सामस्त्येन यन्न लिखितस्तद् ग्रन्थविस्तरभयात् वक्ष्यमाणयमकाराजधान्यधिकारे एवंविधवर्णकस्य साक्षाद्विद्यमानत्वेन व्याख्यास्यमानत्वाच्चेति, अत्र प्रस्तुतसूत्रे शेषद्वाराणां सराजधानीकानां स्वरूपकथनायातिदेशमाह-एवं चत्तारिवी'त्यादि, एवं विजयद्वारप्रकारेण चत्वार्यपि जम्बूद्वीपस्य द्वाराणि सराजधानीकानि भणितव्यानि, ननु विजयद्वारस्य वर्णितत्वात् सूत्रे कथं चतुर्दारविषयकोऽतिदेशः समसूत्रि?, उच्यते, अतिदेश्यातिदेशप्रतियोगिनोरत्यन्ततुल्यवर्णकत्वप्रतिपादनार्थ, ततश्च यथा विजयद्वारस्य वर्णकस्तथा वैजयन्तजयन्तापराजितद्वाराणामपि यथा चामीषां त्रयाणां तथा विजयद्वारस्यापि, यथा विजयराजधान्या वर्णकस्तथा बैजयन्ताजयन्तापराजिताराजधानीनामपि यथा च तासां तिसृणां तथा विजयाराजधान्या अपीत्यर्थः सिद्धः, अस्ति चायं न्यायः, 'एगे जिए जिआ पंच'इत्यादौ तथा दर्शनात् , अमूनि च द्वाराणि पूर्वदिक्तः प्रादक्षिण्येन नामतो ज्ञेयानि, तथाहि-पूर्वस्यां विजयं दक्षिणस्यां वैजयन्तं पश्चिमायां जयन्तं उत्तरस्यामपराजितं चेति, अत्र वैजयन्तादिद्वाराणामपि जीवाभिगमत एव प्रश्न निर्वचनरूपा आलापका वेदितव्याः, तथाहि-कहि णं भंते! जंबुद्दीवस्स दीवस्स वेजयंते णामं दारे पण्णत्ते?, गोअमा! 18| जंबुद्दीवे दीवे मंदरस्स पवयस्स दाहिणेणं पणयालीसं जोअणसहस्साई अबाहाए जंबुद्दीवदीवदाहिणपेरंते लवणसमुद्ददा हिणद्धस्स उत्तरेणं एत्थ णं जंबुद्दीवस्स २ वेजयंते णामं दारे पण्णत्ते अहजोअणाई उडे उच्चत्तेणं सच्चेव सबा वत्तबया Jain Education Bernation For Private Persone Use Only wivwatinelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy