SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ IS कपदात्यनीकमहिपानीकगन्धर्वानींकनाव्यानीकरूपाणां सप्तानामनीकाधिपतीनां षोडशानामात्मरक्षकसहस्राणां विजयख । द्वारस्य विजयायाश्च राजधान्या अन्येषां च बहूनां विजयराजधानीवास्तव्यानां देवानां देवीनां च अधिपतेः कर्म आधिपत्यं रक्षा इत्यर्थः, सा च रक्षा सामान्येनाप्यात्मरक्षकेणेव क्रियते तत आह-पौरपत्यं पुरस्य पतिः पुरपतिः तस्य कर्म पौरपत्यं, सर्वेषामग्रेसरत्वमिति भावः, तच्चाग्रेसरत्वं नायकत्वमन्तरेणापि स्वनायकनियुक्ततथाविधगृहचिन्तकसामान्यपुरुषस्येव, ततो नायकत्वप्रतिपत्त्यर्थमाह-'स्वामित्वं' स्वमस्यास्तीति स्वामी तद्भावः स्वामित्वं नायकत्वमित्यर्थः, तदपि ||SI च नायकत्वं पोषकत्वमन्तरेणापि भवति यथा मृगयूथाधिपतेर्मुगस्य, तत आह-भर्तृत्वं-पोषकत्वं, 'डुभृञ् धारणपोषणयो रिति वचनात् , अत एव महत्तरकत्वं, महत्तरकत्वं कस्यचिदाज्ञाविकलस्यापि भवति यथा कस्यचिद्वणिजः स्वदासदासीवर्ग प्रति, तत आह-आज्ञया ईश्वरः आज्ञेश्वरः सेनायाः पतिः सेनापतिः आज्ञेश्वरश्चासौ सेनापतिश्च आज्ञेश्वरसेनापतिः तस्य कर्म आज्ञेश्वरसेनापत्यं स्वसैन्यं प्रत्यद्भुतमाज्ञाप्राधान्यमित्यर्थः कारयन् अन्यैर्नियुक्तैः पुरुषैः पालयन् स्वयमेव, महता 'रवेणेति योगः 'अहय'त्ति आख्यानकप्रतिबद्धानि यदिवा अहतानि-अव्याहतानि नित्यानुबन्धानीति भावः, ये नाव्यगीते नाव्यं नृत्यं गीतं-गानं यानि च वादितानि तन्त्रीतलतालत्रुटितानि, तन्त्री-वीणा तलो-हस्ततलस्तालः-क-18 18| शिका त्रुटितानि-शेषतूर्याणि, तथा यश्च घनमृदङ्गो-मेघसदृशध्वनिर्मुरजः पटुना पुरुषेण प्रवादितस्तत एतेषां द्वन्द्वस्तेषां || रवेण-नादेन सहकारिभूतेन दिवि भवान् दिव्यान् अतिप्रधानानिति, तथा भोगार्हाः भोगाः-शब्दादयो भोगभोगाः, अथवा 390000000000000000000000000000 Jan Education in For Private Personal Use Only
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy