________________
श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥६ ॥
अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं विजयस्स णं दाररस विजयाए अ रायहाणीए अन्नेसिं च बहूणं वक्षस्कारे विजयारायहाणीवत्थवाणं देवाणं देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे ॥४॥ जम्बूद्वीपपालेमाणे महयहयनदृगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिवाई भोगभोगाई भुंजमाणे विहरडद्वारा सू.८ से तेणटेणं एवं वुच्चइ विजए दारे २"इति, अथ केनार्थेन भदन्त ! एवमुच्यते-विजयद्वारं विजयद्रारमिति ? भग-12 वानाह-गौतम ! विजये द्वारे विजयो नाम प्राकृतत्वादव्ययत्वाद्वा नामशब्दात्परस्य टावचनस्य लोपस्ततोऽयमर्थ:प्रवाहतः-अनादिकालसन्ततिपतितेन विजय इति नाम्ना देवो महर्द्धिको-महती ऋद्धिः-भवनपरिवारादिका यस्यासौ । महर्द्धिकः, 'महाद्युतिकः' महती द्युतिः शरीरगता आभरणगता च यस्यासौ महाद्युतिकः, तथा महत् बलं-शारीरः प्राणो यस्य स महाबलः, तथा महत् यशः-ख्यातिर्यस्यासौ महायशाः, तथा 'महेसक्खें' इति महान् ईश इत्याख्या-प्रसिद्धियस्थासौ महेशाख्यः, अथवा ईशनं ईशो भावे घञ्प्रत्ययः ऐश्वर्यमित्यर्थः, 'ईश ऐश्वर्य'इति वचनात् , तत ईशं-ऐश्वर्य आत्मनः ख्याति-अन्तर्भूतण्यर्थतया ख्यापयति-प्रथयति स ईशाख्यः महांश्चासावीशाख्यश्च महेशाख्यः, क्वचिन्महा-18 | सोक्खे इति पाठः, तत्र महत्सौख्य-प्रभूतसद्वेद्योदयवशाद्यस्य स महासौख्यः, पल्योपमस्थितिकः परिवसति, स च तत्र चतसृणां सामानिकसहस्राणां चतसृणामग्रमहिषीणां सपरिवाराणां प्रत्येकमेकैकसहस्रसंख्यपरिवारसहितानां तिसृणामम्यन्तरमध्यमबाह्यरूपाणां यथाक्रममष्टदशद्वादशदेवसहस्रसङ्ख्याकानां पर्षदां, सप्तानीकानां-हयानीकगजानीकरयानी
BE
Jain Education International
For Private Personal Use Only
www.jainelibrary.org