________________
Jain Education In
| कालुकापरपर्यायौ प्रज्ञप्तौ, तेषामिव - वन्दनकलशानामिव वर्णको वक्तव्यः, नवरं पर्यन्ते 'मत्तगयमहामुहागिईसमाणा पण्णत्ता समणाउसो' इति वक्तव्यं, मत्तो यो गजस्तस्य महद् - अतिविशालं यन्मुखं तस्याकृतिः - आकारस्तत्समानाः प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् ! “तेसि णं तोरणाणं पुरओ दो दो आदंसगा पण्णत्ता, तेसि णं अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा - तवणिज्जमया पगंठगा वेरुलिया मया छरुहा वइरामया वारगा णाणामणिमया वलक्खा अंकामया | मण्डला अणोग्यसि अनिम्मलाए छायाए सबओ चेव समणुबद्धा चंदमंडलपडिनिकासा महया २ अद्धकायसमाणा पण्णत्ता समणाउसो !” तेषां तोरणानां पुरतो द्वौ द्वावादर्शकौ दर्पणौ प्रज्ञप्ती, तेषां चादर्शकानामयमेतद्रूपो वर्णावासः प्रज्ञतः, तद्यथा - तपनीयमया प्रकंठका - पीठविशेषाः वैडूर्यमयाः थासकाः- आदर्शगण्डप्रतिबद्धप्रदेशाः, आदर्शगण्डानां मुष्टिहणयोग्याः प्रदेशा इति भावः, वज्रमया वारगा-गंडा इत्यर्थः, नानामणिमया वलक्षाः, वलक्षो नाम शृङ्खलादिरूपमवलम्बनं येन सम्बद्ध आदर्श: सुस्थिरो भवति, तथा अङ्करत्नमयानि मण्डलानि यत्र प्रतिबिम्बसंभूतिः, तथा अवघर्षणमवघर्षितं भावे कप्रत्ययः भूत्यादिना निर्मार्जनमित्यर्थः अवघर्षितस्याभावोऽनवद्यर्षितं तेन निर्मला अनवघर्षितनिर्मला तया छायया - कान्त्या समनुबद्धा - युक्ताः, तथा 'चंदमंडलपडिनिकासा' इति चन्द्रमण्डलसदृशाः 'महयामहया' इति अतिशयेन महान्तोऽर्द्धकाय समानां - आलोककव्यन्तरादिकायार्द्धप्रमाणा इत्यर्थः, “तेसि णं तोरणाणं पुरओ दो दो | वइरनाभा थाला पण्णत्ता, ते णं अच्छतिच्छडियसालितंदुलनहसंदट्ठपडिपुण्णाविव चिट्ठति सबजंबूणयामया अच्छा
For Private & Personal Use Only
wjainelibrary.org