________________
तेषां प्रासादावतंसकानामन्तबहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येक सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-रजतमयाः सिंहाः, यैरुपशोभितानि सिंहासनानि, सौवर्णिकाः-सुवर्णमयाः पादाः, तपनीयमयानि चक्कलानि-पादानामधःप्रदेशाः भवन्ति, मुक्तानानामणिमयानि पादशीर्षकाणि-पादानामुपरितना अवयवविशेषाः, जाम्बूनदमयानि गात्राणि-ईषादीनि वज्रमया-वज्ररत्नापूरिताः सन्धयोगात्राणां सन्धिमेलाः नानामणिमयं चेचं-व्यूतं विशिष्टं वानमित्यर्थः, तानि च सिंहासनानि ईहामृगऋषभतुरगनरम| करव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापमलताभक्तिचित्राणि, तथा सारसारैः-प्रधानप्रधानैर्विविधैर्मणिरतरुपचितैः | पादपीठैः सह यानि तानि तथा, प्राकृतत्वादुपचितशब्दस्यान्तरुपन्यासा, 'अत्थरयमउअमसूरगनवतयकुसंतलिच्चकेसर
पच्चत्थुआभिरामा' इति आस्तरक-आच्छादनं मृदु येषां मसूरकाणां तान्यास्तरकमृदूनि, विशेषणस्य परनिपातः प्राकृत|त्वात् , नवा त्वक् येषां ते नवत्वचः कुशान्ता-दर्भपर्यन्ता नवत्वचश्च ते कुशान्ताश्च नवत्वक्कुशान्ताः-प्रत्यग्रत्वग्दर्भपर्यन्तरूपा लिच्चानि-कोमलानि नम्रशीलानि च केसराणि, क्वचित् सिंहकेसरेतिपाठः तत्र सिंहकेसराणीव केसराणि मध्ये येषां मसूरकाणां तानि नवत्वक्कुशान्तलिच्चकेसराणि, सिंहकेसरेति पाठपक्षे एकस्य केसरशब्दस्य शाकपार्थिवादिदर्शनाल्लोपः, आस्तरकमृदुभिर्मसूरकर्नवत्वककुशान्तलिच्चकेसरैः प्रत्यवस्तृतानि-आच्छादितानि सन्ति यानि | अभिरामाणि तानि तथा, विशेषणपूर्वापरनिपातो यादृच्छिकः प्राकृतत्वात् , तथा 'आईणगरूअबूरनवनीयतूलफासा'
KARANEReceneeeeeeeeeeeeeeeee
For Private Personal Use Only
wि .jainelibrary.org