________________
प्रतिपादनात् षष्ठाङ्गतया ज्ञाताधर्मकथाङ्गस्य प्रदाने तदनन्तरमवसरः, कारणविशेषे गुर्वाज्ञावशादर्वागवि, बबस्तदुपाअत्वादस्य तदनन्तरमवसर इति संभाव्यते, योगविधानसामाचाामपि अङ्गयोगोदइनानन्तरमेवोपाङ्गयोगोद्वहनन विधिप्राप्तत्वादिति २। तथेदमुपाङ्गमपि प्रायः सकलजम्बूद्वीपवर्तिपदार्थानुशासनाच्छालं, तत्र च सम्यग्ज्ञाना | परमपदमापकत्वेन श्रेयोभूतता, अतो मा भूदत्र विघ्न इति तदपोहाय मङ्गलमुपदर्शनीयं, यत:-"बहुचिग्याई बेवाई तेण कयमंगलोवयारेहिं । घेत्तवो सो सुमहानिहिब जह वा महाविजा ॥१॥” इति, तश्च त्रिविध-आदिमध्याकमानभेदात्, तत्र आदिमङ्गलं णमो अरिहंताण' मित्यविघ्नतया शाखस्य परिसमाप्त्यर्थ, मध्यमङ्गलं 'जया णं एकमेके चकवडिविजए भगवंतो तित्थगरा समुप्पजंति'त्ति तस्यैव स्थैर्याय, अस्य च द्वितीयाधिकारादिसूत्रस्य विभुजबोडतजिनजन्मकल्याणकसूचकत्वेन परममङ्गलत्वात्, अन्त्यमङ्गलं तु 'समणे भगवं महावीरे मिहिलाए प्रगरीए' इत्यादिनिगमजसूत्रे श्रीमन्महावीरनामग्रहणमिति, तस्यैव शिष्यप्रशिष्यादिपरम्परया अव्यवच्छेदार्थ, नन्विदं सम्यग्ज्ञानरूपत्वेन निर्जरार्थत्वात् अथवा “जी जं पसत्थमत्थं पुच्छा तस्सत्थसंपत्ती" इति निमित्तशास्त्रे द्वीपसमुद्राभिधानग्रहणस्य परममङ्गलत्वेन निवेदनादस्य द्वीपप्ररूपणात्मकत्वात् स्वयमेव सर्वात्मना मङ्गलं (लता) किं मङ्गलान्तरोपम्यासेन', अनवस्थाप्रसङ्गात्, | मैवं, मङ्गलतया हि परिगृहीतं शास्त्रं मङ्गलमिति व्यवहियते फलदं च भवति, साधुवत् , अन्यथोपहासनमस्कारादेरपि
१ बहुविनानि श्रेयांसि तेन कृतमङ्गलोपचारैः । प्रहीतव्यः सः (अनुयोगः) सुमहानिधिरिव यथा वा महाविद्या ॥१॥२ यो यं प्रशस्तमर्थ पृच्छति तस्यार्थसंपत्तिः।
Jain Education inte
For Privat p
anuse only
helibrary.org