SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte सुस्सरघोसाओ उरालेणं मणुण्णेणं मणहरेणं कण्णमणनिव्वुइकरेणं सद्देणं जाव चिट्ठति” अक्षरगमनिका प्राग्वत्, द्वे द्वे घण्टे प्रज्ञप्ते, 'तासि णं' तासां घण्टानामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-जाम्बूनदमय्यो घण्टाः, वज्रमय्यो | लालाः नानामणिमया घण्टापाव-घण्टैकदेशविशेषाः, तपनीयमय्यः शृङ्खला यासु ता अवलम्बितास्तिष्ठन्ति, रजतमय्यो रज्जवः प्रतीताः ताश्च घण्टा ओघेन - प्रवाहेण स्वरो यासां तास्तथा, मेघस्येवातिदीर्घः स्वरो यासां तास्तथा, हंसस्येव मधुरः स्वरो यासां तास्तथा, एवं क्रोश्वस्वराः, सिंहस्येव प्रभूतदेशव्यापी स्वरो यासां तास्तथा, एवं दुन्दुभिस्वराः, नन्दि:- द्वादशतूर्यसंघातस्तद्वत्स्वरो यासां तास्तथा, नन्दिवत् घोषो-निनादो यासां तास्तथा, मञ्जुः प्रियः कर्णमनःसुखदायी स्वरो यासां तास्तथा, एवं मञ्जुघोषाः, किं बहुना ?, सुखराः सुस्वरघोषाः, अथवा सुष्ठु यत् स्वं - स्वकीयं अनन्तरोक्तं वर्ण शृङ्खलादिकं तेन राजन्ते इति सुस्वराः तथा शोभनौ स्वरघोषौ यासां ताः, 'उरालेण' मित्यादि | प्राग्वत्, “विजयस्स णं दारस्स उभओ पासिं दुहओ णिसीहियाए दो दो वणमालाओं पण्णत्ताओ, ताओ णं वणमा| लाओ णाणादुमलय किसलयपल्लवसमाउलाओ छप्पयपरिभुज माणसोभंत सस्सिरीयाओ पासादीयाओ ४" अत्र व्याख्यापदयोजना प्राग्वत्, द्वे द्वे वनमाले प्रज्ञप्ते, ताश्च वनमाला द्रुमाणां नानालतानां च ये किशलयरूपा अतिकोमला इत्यर्थः पल्लवास्तैः समाकुलाः - सम्मिश्राः षट्पदैः परिभुज्यमानाः सत्यः शोभमानाः षट्पदपरिभुज्यमानशोभमानाः, अत एव सश्रीकाः, ततः पूर्वपदेन विशेषणसमासः 'पासाईया' इत्यादि प्राग्वत्, “विजयस्स णं दारस्स उभओ पासिं For Private & Personal Use Only lainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy