________________
श्रीजम्बू- द्वीपशान्तिचन्द्रीया वृत्तिः
॥५२॥
तिर्यग्वलिताक्षिकटाक्षः परस्परं खिद्यन्त इवेति, तथा 'पुढवीपरिणामाओ' इति पृथ्वीपरिणामरूपाः शाश्वतभावमुपगता वक्षस्कार | विजयद्वारवत्, चन्द्रानना:-चन्द्रमुख्यः चन्द्रवन्मनोहरं विलसन्तीत्येवंशीलाश्चन्द्रविलासिन्यः चन्द्रार्दैन-अष्टमी
विजयद्वार
वर्णनं सू.८ | चन्द्रेण सम-सदृशं ललाटं यासां ताः चन्द्रार्द्धसमललाटाः, चन्द्रादप्यधिक सोम-सुभगं कान्तिमदर्शन-आकारो यासां | |ताः तथा, उल्का इव-गगनाग्निज्वाला इवोद्योतमानाः विद्युतो-मेघवह्नयस्तासां घना-निबिडा मरीचयस्तेभ्यो यच्च सूर्यस्य दीप्यमानं घनाद्यनावृतं तेजस्तस्मादधिकतरः सन्निकाश:-प्रकाशो यासां तास्तथा, शृङ्गारो-मण्डनभूषणाटोपस्तत्प्रधान आकारो यासां तास्तथा, चारुवेषाः-मनोहरनेपथ्याः, पश्चात्कर्मधारयः, अथवा शृङ्गारस्य-प्रथमरसस्या| गारमिव-गृहमिव चारु वेषो यासां तास्तथा, प्रासादीया इत्यादिपदचतुष्टयं प्राग्वत्, “विजयस्स णं दारस्स उभओ पासिं दुहओ णिसीहियाए दो दो जालकडगा पण्णत्ता, ते णं जालकडगा सवरयणामया अच्छा सण्हा जाव पडिरूवा"|| विजयस्येत्यादि प्राग्वत्, द्वौ द्वौ जालकटकौ-जालकाकीर्णों रम्यसंस्थानौ प्रदेशविशेषौ प्रज्ञप्ती, ते च जालकटकाः सर्वरत्नमयाः अच्छा' इत्यादि प्राग्वत् । “विजयस्स णं दारस्स उभओपासिं दुहओ णिसीहियाए दो दो घंटाओ पण्णचाओ, तासि णं घंटाणं अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा-जंबूणयामईओ घंटाओ वइरामईओ लालाओ णाणामणिमया घंटापासगा तवणिजमईओ संकलाओ रययामईओ रज्जूओ, ताओ णं घंटाओ ओहस्सराओ मेहस्सराओ हंसस्सराओ कोंचस्सराओ सीहस्सराओ दुंदुभिस्सराओ णंदिस्सराओ कंदिघोसाओ मंजुघोसाओ सुस्सराओ
JainEducation H
onal
For Private Personal Use Only
Marw.jainelibrary.org