________________
तास्तथा, रक्तोऽपाङ्गो-नयमप्रान्तं यासां ताः रक्तापाङ्गाः, असिताः-श्यामाः केशाः यासां ता असितकेशाः मृदवःकोमला विशदा-निर्मलाः प्रशस्तानि-शोभनान्यस्फुटिताग्रत्वप्रभृतीनि लक्षणानि येषां ते प्रशस्तलक्षणाः, संवेल्लितं-संवृतं । किञ्चिदाकुश्चितं अग्रं येषां शेखरकरणात् ते संवेल्लितायाः शिरोजा:-केशाः यासां ता मृदुविशदप्रशस्तलक्षणसंवेल्लिताप्रशिरोजाः, नानारूपाणि माल्यानि-पुष्पाणि पिनद्धानि-आविद्धानि यथोचितस्थानेषु स्थापितानि यासां ता नाना-13 माल्यपिनद्धाः, निष्ठान्तस्य परनिपातो भार्यादिदर्शनात् , मुष्टिग्राह्यं तनुतरत्वात् सुष्टु मध्यं-मध्यभागो यासांता मुष्टि-19 ग्राह्यसुमध्याः, 'आमेलगजमलजुअलवट्टिअअन्भुण्णयपीणरइअसंठिअपयोहराओ' आपीड:-शेखरकस्तस्य यमलं-सम-31 श्रेणीकं युगलं तद्वर्तितौ-बद्धस्वभावावुपचितकठिनभावाविति भावः, अत एवाभ्युन्नती-तुङ्गो पीनरतिदसंस्थितौ
MEHRADUN पीवरसुखदसंस्थानौ पयोधरौ-स्तनौ यास तास्तथा, तथा 'ईसिं असोगपायवसमुट्ठियाओ' इति, ईषत्-मनाक् अशोकवरपादपे समवस्थिसा-आश्रिताः तथा वामहस्तेन गृहीतम शालायाः-शाखाया अर्थादशोकपादपस्य याभिस्ताः वामहस्तगृहीतापशाखाः, 'ईसिं अद्धच्छिकडक्खचिट्ठिएहिं लूसेमाणीओ विवे'ति ईषत्-मनाक् अर्द्ध-तिर्यग्वलितं अक्षि-चक्षुर्येषु कटाक्षरूपेषु चेष्टितेषु शृङ्गाराविर्भावकक्रियाविशेषेवित्यर्थः तैर्मुष्णन्त्य इव सुद्धजनमनासीति गम्यं, तथा 'चक्खुल्लोअणलेसेहिं' अन्नमन्न-परस्परं चक्षुषां लोकनेन-अवलोकनेन लेशाः-संश्लेषास्तैः खिद्यमाना इव, किमुक्तं भवति?-एवं नाम ताः तिर्यग्वलिताः कटाक्षः परस्परमवलोकमानाः अवतिष्ठन्ति यथा नूनं परस्परसौभाग्यासहनतः
Jan Education
For Private Person Use Only
aww.jainelibrary.org