________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥ ५१ ॥
| sनेकस्वरा' दितीकप्रत्ययः (श्रीसिद्ध ०७ - २ - ६ ) अत एव गन्धवर्त्तिभूताः - सौरभ्यातिशयाद्गन्धद्रव्यगुटिकाकल्पाः उदारेण स्फारेण मनोज्ञेन - मनोऽनुकूलेन, कथं मनोऽनुकूलत्वमत आह-घ्राणमनोनिर्वृतिकरेण गन्धेन तान्- प्रत्यासन्नान् प्रदेशान् आपूरयन्त्यः २ श्रिया अतीव शोभमानाः २ तिष्ठन्ति, "विजयस्स णं दारस्स उभओ पासिं दुहओ निसीहियाए दो दो सालभंजियाओ पण्णत्ताओ, ताओ णं सालभंजियाओ लीलट्ठियाओ सुपइठ्ठिआओ सुअलंकियाओ णाणाविहरागवसणाओ रत्तावंगाओ असियकेसीओ मिडविसयपसत्थलक्खण संवेल्लियग्गसिरयाओ णाणामल्लपिणद्धाओ मुट्ठिगेज्झसुमज्झाओ आमेलगजमलजुअलवट्टिअअब्भुन्नयपीणरइअसंठियपयोहराओ ईसिं असोगवरपायवसमुट्ठियाओ वामहत्थग हियग्गसालाओ | ईसिं अद्धच्छिकडक्खचिट्ठिएहिं लूसेमाणीओविव चक्खुल्लोअणलेसहिं अण्णमण्णं खिजमाणीओविव पुढवीपरिणामाओ सासयभावमुवगयाओ चंदाणणाओ चंदविलासिणीओ चंदद्धसमणिडालाओ चंदाहियसोमदंसणाओ उक्का इव उज्जोएमाणीओ विजुघणमरीचिसूरदिप्पंतते अअहिअयर सण्णिगासाओ सिंगारागारचारुवेसाओ पासादीयाओ तेअसा अईक २ उवसोभेमाणीओ चिट्ठति' अत्र व्याख्या - विजयस्य द्वारस्योभयोः पार्श्वयोरेकैकनैषेधिकीभावेन द्विधातो-द्विप्रकारायां नैषेधिक्यां द्वे द्वे शालभञ्जिके पश्चाल्यौ प्रज्ञप्ते, ताश्च शालभञ्जिका लीलया - ललिताङ्गनिवेशरूपया स्थिताः लीला| स्थिताः सुष्ठु - मनोज्ञतया प्रतिष्ठिताः सुप्रतिष्ठिताः सुष्ठु अतिशयेन रमणीयतया अलंकृताः स्वलंकृताः, तथा 'नानाविह| रागवसंणाओ' इति नानाविधो - नानाप्रकारो रागो-रञ्जनं येषां तानि तादृशानि वसनानि-वस्त्राणि संवृततया यासां
Jain Education International
For Private & Personal Use Only
१ वक्षस्कारे विजयद्वारवर्णनं सू.८
॥ ५१ ॥
www.jainelibrary.org