________________
कण्ठेगुणा' इति आविद्धः-आरोपितः कण्ठे गुणो-रक्तसूत्ररूपो येषां ते तथा, कण्ठेकालवत् सप्तम्या अलुप, तथा पद्ममुत्पलं च यथायोगं पिधानं येषां ते तथा, 'सव्वरयणामया' इत्यादि प्राग्वत् , 'महया महया' इति अतिशयेन महान्तो 'महेन्द्रकुम्भसमानाः' कुम्भानामिन्द्र इन्द्रकुम्भो, राजदन्तादिदर्शनादिन्द्रशब्दस्य पूर्वनिपातः, महांश्चासाविन्द्रकुम्भश्च तस्य समाना महेन्द्रकुम्भसमाना-महाकलशप्रमाणाः यद्वा महीन्द्रो-राजा तदर्थ तस्य सम्बन्धिनो वा कुम्भा-अभिषेककलशाः तत्समानाः प्रज्ञप्ताः, हे श्रमण! हे आयुष्मन् !, "विजयस्स णं दारस्स उभओपासिं दुहओ णिसीहियाए दो दोणागदंतगा पण्णता, ते णं णागदंतगा मुत्ताजालंतरूसिअहेमजालगवक्खजालखिखिणीघंटाजालपरिक्खित्ता अब्भुग्गया अभिनिसिट्ठा तिरिअं सुसंपग्गहिया अहेपण्णगद्धरूवा पण्णगद्धसंठाणसंठिया सबवइरामया अच्छा जाव पडिरूवा महया २ गयदंतसमाणा पण्णत्ता समणाउसो!" विजयस्य द्वारस्येत्यादिपदयोजना प्राग्वत् , द्वौ द्वौ नागदन्तकौ-नर्कुटिको अङ्कटिकावित्यर्थः प्रज्ञप्तौ, ते च नागदन्तका मुक्काजालानामन्तरेषु यानि उच्छ्रितानिलम्बमानानि हेमजालानि-हेममया दामसमूहा यानि च गवाक्षजालानि-गवाक्षाकृतिरत्नविशेषाः दामसमूहा यानि च किंकिणीघण्टाजालानि-क्षुद्रघण्टासमूहास्तैः परिक्षिताः-सर्वतो व्याप्ताः, अभिमुखमुद्गता अभ्युद्गता-अग्रिमभागे मनागुन्नता | इति भावः, येन तेषु माल्यदामानि सुस्थितानि भवन्ति, अभिमुखं-बहिर्भागाभिमुखं निसृष्टा-निर्गताः अभिनिसृष्टाः 18 तिर्यग्-भित्तिप्रदेशैः सुष्टु-अतिशयेन सम्यग्-मनागप्यचलनेन परिगृहीताः 'अहेपण्णगद्धरूवा' इति अधः-अधस्तनं
Mo2020203020202028828302020
Jan Education
a
l
For Private Porn Use Only
ww.jainelibrary.org