________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥४९॥
| यस्य तत्तथा, ततः पदत्रयस्य पदद्वयमीलनेन २ कर्मधारयः, एतेन यत्प्राक् सामान्यनोत्क्षिप्तं 'सेए वरकणगथभियागे र | इति तदेव प्रपञ्चतोभावितमिति, सम्प्रति तदेव श्वेतत्वमुपसंहारव्याजेन भूय उपदर्शयति-श्वेतं, श्वेतत्वमेवोपमया द्रढ-18| | विजयद्वार
यति-विमलं-निर्मलं यत् शङ्खतलं-शङ्खस्योपरितनो भागो यश्च निर्मलो दधिधनो-घनीभूतं दधि गोक्षीरफेनो रजत- 8 वर्णनं मृ.८ | निकरश्च-रूप्यराशिस्तद्वत्प्रकाशः-प्रतिमता यस्य तत्तथा, 'तिलगरयणद्धचंदचित्ते' इति तिलकरत्नानि-पुण्डु विशेषाः | तैरर्द्धचन्द्रश्च-अर्द्धचन्द्राकारैः सोपानविशेषैश्चित्रं-चित्रकारि तिलकरत्नार्द्धचन्द्रचित्रं, तथा नानामणयो-नानामणिम
यानि दामानि-मालास्तैरलङ्कतं नानामणिदामालङ्कतं, तथा अन्तर्बहिश्च श्लक्ष्णं-श्लक्ष्णपुद्गलस्कन्धनिर्मापितं तपनी| याः-तपनीयमय्यो वालुका:-सिकतास्तासां प्रस्तट:-प्रस्तारो यत्र तत्तपनीयवालुकाप्रस्तटं, 'सुहफास' इत्यादि प्राग्वत् । "विजयस्स णं दारस्स उभओ पासिं दुहओ णिसीहियाए दो दो चंदणकलसा पण्णत्ता, ते चंदणकलसा वरकमलपइट्ठाणा सुरभिवरवारिपडिपुण्णा चंदणकयचच्चागा आविद्धकंठेगुणा पउमुप्पलपिहाणा सबरयणामया अच्छा सण्हा जाव पडिरूवा महया महया महिंदकुंभसमाणा पण्णत्ता समणाउसो!” अत्र व्याख्या-विजयस्य द्वारस्योभयोः पार्श्व| योरेकैकनषेधिकीभावेन 'दुहओ'त्ति प्राकृतत्वात् इस्वत्वे द्विधातो-द्विप्रकारायां नैपेधिक्यां, नेषेधिकी चात्र निषदन
स्थानं, तत्र प्रत्येकं द्वौ द्वौ वन्दनाय कलशौ वन्दनकलशौ-मांगल्यघटौ प्रज्ञप्तौ, ते च वन्दनकलशा वरकमलं |प्रतिष्ठानं-आधारो येषां ते तथा, तथा सुरभिवरवारिपरिपूर्णाः, चन्दनकृतचर्चाका:-चन्दनकृतोपरागाः, 'आविद्ध-||
celeteeeeeeeeeeeeeeeee
४९॥
Jain Education
a
l
For Private & Personal use only
Iww.jainelibrary.org