________________
निरन्तरितघनकपाट'मिति निर्गता अन्तरिका-लघ्वन्तररूपा ययोस्तौ निरन्तरिको अत एव घनकपाटौ यस्य तत्तथा|| 'भित्तिसु चेव भित्तिगुलिया छप्पण्णा तिण्णि होति' इति तस्य द्वारस्योभयोः पार्श्वयोभित्तिषु भित्तिषु गता भित्तिगुलिकाः पीठकसंस्थानीयाः तिस्रः षट्पञ्चाशतः-षट्पञ्चाशत्रिकप्रमिता भवन्ति, अष्टषष्ट्यधिकं शतमित्यर्थः, तथा गोमानस्यः-शय्याः तावन्मात्रा:-षट्पञ्चाशत्रिकप्रमिताः, नानामणिरत्नमयानि व्यालरूपाणि-फणिरूपकाणि, लीलास्थितशालभञ्जकाश्च-लीलास्थितपुत्रिका यत्र तत्तथा, तथा तस्य द्वारस्य वज्रमयः कूटो-माढभागः रजतमय उत्सेधः, शिखरं केवलं, शिखरमत्र तस्यैव माढभागस्य सम्बन्धि द्रष्टव्यं न द्वारस्य, तस्य प्रागेवोक्तत्वात् , सर्वात्मना तपनी| यमय 'उल्लोकः' उपरिभागः 'नानामणिरयणजालपञ्जरमणिवंसगलोहिअक्खपडिवंसगरययभोम्मे' इति मणयो-मणि-| मया वंशा येषां तानि मणिवंशकानि तथा लोहिताक्षा-लोहिताक्षमयाः प्रतिवंशाः येषां तानि लोहिताक्षप्रतिवंशकानि, तथा रजतमयी भूमिर्येषां तानि रजतभूमानि, प्राकृतत्वात् समासान्तो मकारस्य च द्वित्वं, मणिवंशकानि लोहि-1| ताक्षप्रतिवंशकानि रजतभूमानि, नानामणिरत्नानि-नानामणिरत्नमयानि जालपंजराणि-गवाक्षापरपर्यायाणि यस्मिन् द्वारे तत्तथा, पदानामन्यथोपनिपातः प्राकृतत्वात् , 'अङ्कामया पक्खा इत्यत आरभ्य रययामए छाणे' इत्यन्तानि | पद्मवरवेदिकावद्भावनीयानि, 'अंकामयकणगकूडतवणिजथूभियागे' इति, अङ्कमयं-बाहुल्येनाङ्करत्नमयं पक्षबाहादीनामङ्करत्नात्मकत्वात् कनक-कनकमयं कूट-महच्छिखरं यस्य तत्तथा, तपनीया-तपनीयमयी स्तूपिका-लघुशिखररूपा
kotatoetrokterkoteeschotee
श्रीजम्बू.
Jal Education No
O॥
For Private Personal Use Only
ATMw.jainelibrary.org