________________
श्री चतुर्वि शतिजिन
स्तुतयः ।। २९ ।।
Jain Education
| पुनः किं० ? शमघरी-दधारिका । पुनः किं० ? कृतं विहितं कामच - अभीष्टवृन्दं यया सा । सा का ? यत्पादपद्मं आलम्बनं आधारोऽभवत् आसीत् । के ? भवाब्धौ संसारसागरे पततां पुंसाम् ॥ २ ॥ कादम्बिनीव शिखिनामनोदपास्ता -रामारमा मतिमतां तनुतामरीणाम् । जैनी नृणामियममर्त्यमणीव वाणी, रामा रमामतिमतां तनुतामरीणाम् ॥ ३ ॥
वि० - इयं जैनी वाणी- जिनवा, नृणां नराणां रमां लक्ष्मी, तनुतां कुरुतां । इव यथा | अमर्त्यमणी चिन्तामणी रमा तनोति । वाणी किं० ? रामादया । रमां किं० अतिमतां अतिमान्यां । पुनः किं० ? अरीणां अक्षीणां । इयं का ? या वाणी मतिमतां विदुषां अरीणां निपूणां तनुतां कृशतां अतनोत् करोति स्म । इव यथा । कादम्बिनी- मेघमाला । शिखिनां अग्नीनां तनोति । पुनः किं० ? अपास्ता ध्वस्ता अरामा अशुभ अरमा अलक्ष्मीः यया सा || ३ ||
सम्यग्दृशां सुखकरी मदमत्तनील- कण्ठीरवासे ततनोदित साक्षमाला ।
देव्यव ! शिवमिपं दिश पण्डितानां कण्ठीरवासिततनोऽदितता क्षमाला ॥ ४ ॥ इति पण्डितश्री आनन्द विजयगणिशि० पं० मेरुविजयगणिविरचिताः श्रीचतुर्विंशतिजिनानन्द नामस्तुतयः सम्पूर्णाः ॥
For Private & Personal Use Only
Aaica
चि०स्तु०
।।। २९ ।।
inelibrary.org