SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ VADAV PAUGGNPUR नित्यं वहेम हृदये जिनचक्रवाल-मानन्ददानमहितं नरकान्तकारि। मुक्ताकलापमिव हारिगुणं धुनानं, मानं ददानमहितं नरकान्तकारि ॥२॥ वि०-जिनचक्रवालं-जिनवजं वयं हृदये बहेम-स्मरेम । नित्यं-सदा । चक्रवालं किं ? आनन्दस्य-दर्पस्य दानं येषां एतादृशैः नरैः माहितं-पूजितं । पुनः किं० ? नरकस्य-निरयस्य अन्तकारि-विनाशि । पुनः किं० ? हारिणः-कान्ता गुणा यस्य तत् । इव-यथा मुक्ताकलापं-हारं हारिगुणं कश्चित् धरति । चक्रवालं किं कुर्वाणं ! धुनानं-निरस्यन्तं । कं ? मान8 गर्ने । मानं किं कुर्वाणं ? ददानं ददत् (त) । किं ? अहितं-दुःखं । चक्रवालं किं० ? नराणां कान्तं-वाञ्छितं करोतीत्येवंशीलं तत्तथा ॥२॥ वाचां ततिर्जिनपतेः प्रचिनोतु भद्र, भ्राजिष्णुमा नरहिताऽकलिताऽपकारैः । सेव्या नरैर्धवलिमाऽस्तसुधासुधाभा-भ्राऽजिष्णुमानरहिता कलितापकारैः ॥३॥ वि०-जिनपतेः वाचां ततिः-वागवीथी भद्र-शिवं प्रचिनोतु-तनोतु । ततिः किं०? भ्राजिष्णुः-शोभनशीला मा-शोभा यस्याः सा । पुनः किं.? नराणां हिता- हितकारिणी। पुनः किं. ? अकालता-रहिता । कैः ? अपकारः-अनुपकृतिभिः । पुनः किं० ? सेव्या-सेवनीया । कैः ! नरैः-मनुजैः। पुनः किं ? धवलिम्ना-धवलत्वेन अस्तानि-जितानि सुधा-अमृतं Acccwww Jan Education into For Private Personel Use Only Cainelibrary.org
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy