________________
षाणां वारस-समूहों मणयो-रत्नानि तैः मीलितं-कलित मस्तक-शिरी येषां तेषां । माला किं०? अमन्दो-गम्भीरः आरव:-शब्दो यस्याः सा । अरं-अत्यथ । कुशलं कि.? अणिम्नां-जन्धिविशेषाणां आलि:-श्रेणिः तस्याः ता-रमा यत्र तत् । पुंसां किं. अस्त-गतं क-सुखं येषां तेषाम् ॥२॥
यो गोस्तनीमधुरतां निजहार हानि-च्छिन्नाशिताजिनवरागमहारिवार ! । माधुर्यमेति न तवाधिशुचौ मधुस-च्छिन्ना सिता जिनवरागम ! हारिवारः ॥३॥
वि०-हे जिनवरागम !-सिद्धान्त ! तव माधुर्यं-मधुरत्वं, सिता-शर्करा, नैति-न याति । सिता किं० ? मधुरत्वेन छिन्ना-जिता । तव किं.? हारिवार:-कान्तनीरस्य । क्व ? आधिशुचौ-चित्तपीडाग्नौ । तव किं.? (तस्य २ कस्य ?) या-सिद्धान्तः गोस्तनीमधुरता-द्राक्षामाधुर्य, निजहार-निराकरोति स्म । यः किं०? हानिच्छित्-क्षयभित । नाशितः-प्रणाशितः आजिनवरागमहारीणां-बुद्धनवप्रेमबृहद्वैरिणा वारः-समूहो येन तत्सं० । शसयोरेक्यात् ॥ ३ ॥
श्रीआचिरेयचरणान्तिकसक्तचित्ता, निर्वाणिनी रसनरोचितदेहकान्ता । मां शर्मणां पृथु विधेहि गृहं सुराणां, निर्वाणि ! नीरसनरोचितदेह कान्ता ॥ ४ ॥ वि०-हे निर्वाणि !-निर्वाणदिवि ! त्वं मां शर्मणां-मुखानां गृह-मन्दिरं, विधेहि-कुरु। गृह किं० ? पृथु-विशालं ।
JainEducation indi
For Private Personal use only
Aby od