SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte श्री अनन्तजिनस्तुतयः प्रज्ञावतां तनु समस्तनुतामनन्त - मायाऽसमेत परमोहमलो भवन्तम् । स्याद्वादिनामधिपते ! महतामनन्त!, मायाऽसमेत ! परमोहमलोभवन्तम् ॥ १ ॥ वि-हे अनन्त ! स्याद्वादिनामधिपते ! - अनन्तजिन ! त्वं प्रज्ञावतां विदुषां तमस्तनुतां पापकृशता, सनु-विस्तारय । नास्ति अन्तस्य मरणस्य मा लक्ष्मीः तस्या आयो लाभो यस्य तत्सं० । त्वं किंविशिष्टः ? असमा असाधारणा इता - गताः परे-वैरिणो मोहो-मौह्यं मलश्च पापं यस्मात् सः । प्रज्ञावतां किं कुर्वतां ? महतां - अर्चयतां । कं ? भवन्तं त्वां । मायया -दम्भेन असमेतो- रहितः तत्सं० । भवन्तं किं० ? परमः - प्रशस्यः कहः - तर्को यस्य तं । पुनः किं० ? अलोभवन्तं - कोभवर्जितम् ॥ १ ॥ चक्रे मराल इव यो जगतां निवासं, कामोदितावनिधनादृत ! मानसे नः । ऊर्वीमिवावनिवरो व्रज ! तीर्थपानां, कामोदिताऽव निधनाहतमानसेनः ॥ २ ॥ वि०- हे तीर्थपानां व्रज ! स त्वं नः - अस्मान् अव-रक्ष । कस्मात् ? निधनात् - नाशात् इव यथा अवनिवरो-नृपः, For Private & Personal Use Only elibrary.org
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy