________________
Jain Education Int
जुषी जिनपदं न्यदधद्विशाला - पत्रं परागमधुरं विगतामशोकाम् । 'स्मेराननां सुजन ! भोः स्मर तां सहस्र-पत्रं परागमधुरं विगतामशोकाम् ॥ ४ ॥ १० ॥ वि०- भोः सुजन !- सज्जन त अशोकां देवीं स्मर ! अशोकां किं० ? विगतां यातां । किं ? सहस्रपत्र- पद्मं । सहस्रपत्रं किं० ? परागैः-रजोभिर्मधुरं मनोनं । पुनः किंविशिष्टां ? स्मेरं स्मितं आननं मुखं यस्यास्तां । तो कां ? या देवी परागमस्य वर सिद्धान्तस्य धुरं भारं न्यदधव घरात स्म । या किं० ? भेजुषी श्रितवती । कं ? जिनपदं जिनचरणं । जिनपदं किं० ? विशालापत्त्रं-पृथुविपत्तेः श्रायकं । पुनः किं० ? विगतौ नष्टौ आमशोको रोगचौ यस्याः सकाशाव ताम् ॥ ४ ॥ १५ ॥
श्री श्रेयांसजिनस्तुतयः
श्रेयांस सर्वविदमङ्गिगण! त्रियामा - कान्ताननं तमहिमानम मानवाते ।
यं भेजुषो भवति यस्य गुणान्न यातं, कान्ताननन्तमहिमानममा नवा ते ॥ १ ॥
For Private & Personal Use Only
hellbrary.org