SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीचतुर्वि शतिजिन स्तुतयः ॥ २ ॥ अजितजिनस्तुतयः सयुक्तिमुक्तितरुणीनिरतं निरस्त - रामानवस्मरपरं जितशत्रुजातम् । अन्तर्जवेन विजयाङ्गजमात्तधर्म्म -रा मानव ! स्मर परं जितशत्रुजातम् ॥ १ ॥ वि०—हे मानव ! त्वं विजयाङ्गजं- अजितजिनं, स्मर-स्मृतिपथं नय । केन ? अन्तर्जवेन-मनोवेगेन । विजयाङ्गजं किंविशिष्टं ? सद्युक्तिमुक्तितरुण्यां- प्रधानसिद्धिखियां निरतं- रागिणं । पुनः किं ? निरस्ता-मुक्ता, रामाः स्त्रियो, नत्रस्मरोनव्यकामः परे वैरिणो येन तं । पुनः परं प्रशस्यं । पुनः जितं कर्मरूपशत्रुजातं येन तं । किं० ? आत्तः प्राप्तो धराः स्वं येन स । जिनं किं० ? जितशत्रुनृपाव जातं समुद्भवम् ॥ १ ॥ विश्वेश्वरा विशसनीकृतविश्वविश्वा - वामप्रतापकमलास्ततमोविपक्षाः । निघ्नन्तु विघ्नमघवन्तमनन्तमाप्ता वामप्रतापकमलाऽस्ततमोविपक्षाः ॥ २ ॥ वि०--आप्ता - जिना विघ्नं निघ्नन्तु-निरस्यन्तु । आप्ताः किंविशिष्टाः । विश्वेश्वरा - जगदीश्वराः । पुनः किं० ? विशसनीकृता-हता, विश्वे - समस्ता, विश्वाया- जगताः, वामः - प्रतिकूलः, प्रताप:- प्रकृष्टः क्लेशो येभ्यः ईदृशा मलास्त Jain Education International For Private & Personal Use Only च०स्तु० ॥ २ ॥ www.jainelibrary.org
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy