SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसूत्र अवचूरिसमलंकृतय ॥ ५४॥ आला आलयत्ति, सूचकत्वानिर्दोषालयवर्ती, विहारत्ति, यथोक्तविहारेण विहरन् , समितः ईर्यादिभिः, युक्तो नाग्न्याऽस्नानभूशयनादन्तपवनशिरस्तुण्डमुण्डनमिक्षाभ्रमणक्षुत्पिपासाशीतातपादिसहनगुरुकुलवासादिलक्षणैः श्रमणगुणैः, गुप्तो गुप्तित्रयेण गुप्त स्थितः श्रमणधर्मे यत्यनुष्टाने, शेषं प्राग्वत् ॥ १८ ॥ आल० त्रिविधेन मनोवाकायलक्षणेन करणेनाप्रमतः, सुप्रणिहितः रक्षामिः, स्वजीवितमिवादरेण पालयामि महावतानि पञ्च ॥ १९ ॥ इदानीमेकाोकोत्तरवृद्धिकानां दशान्तानामशुभशुभस्थानानां परिवर्जनाङ्गी कारकरणेन महावतरक्षणमाहसावज्जजोगमेगं, मिच्छतं एगमेव अन्नाणं । परिवजेतो गुत्तो रक्खामि महत्वए पंच ॥ २० ॥ सावद्ययोगं सपापव्यापारमेकमेकमेदं सर्वनिन्द्यकर्मणां सावधयोगत्वाव्यभिचारात् । मिथ्यात्वं विपर्यस्ताध्यवसायरूपो जीवपरिणामस्तनिमित्तलौकिकदेवतादिवन्दनादिक्रिया च, तदेकमाभिग्रहिकादिभेदतोऽनेकप्रकारमपि विपर्ययसाम्यादेकप्रकारम् । एवत्ति, अनुस्वारलोपादेवं मिथ्यात्वषदेकविधमित्यर्थः । अज्ञानं नमः कुत्सार्थत्वात् कुत्सितं ज्ञानम्, संशयाद्यात्मको जीवावबोधस्तत्प्रभवग्रन्थविशेषाश्च, तदपि संशयविपर्ययाद्यनेकविधमप्यवबोधसाभ्यादेकमेदमिति, परिवर्जयन् गुप्तो मनोवाकार्यः संवृतः सन् रक्षामिमहावतान्युक्तलक्षणानि पञ्चति ॥ २० ॥ अणवजजोगमेगं, सम्मत्तं एगमेव नाणं तु। उवसंपन्नो जुत्तो. रक्खामि महबए पंच ॥ २१॥ अण० कुशलानुष्टानं अनवद्ययोगत्वाव्यभिचारादेकम्, सम्यकत्वं क्षायिकादि श्रद्धानसाम्यादेकजीवस्यैकादेकस्यै व भावाच, तोरप्यर्थत्वात् शानमपि पकविधमेवाऽवबोधसाम्यादुपयोगापेक्षया वा, लब्धितो हि बहूनां बोधविशेषाणामेकदा सम्भवेऽप्युपयोगत ॥५४॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy