________________
श्रमणसूत्रम्
॥ १८ ॥
Jain Education Internat
नमश्चतुर्विंशतितीर्थकरेभ्यः, ऋषभादिमहावीरपर्यवसानेभ्यः, प्रस्तुतमाह - इदमेव द्वादशांगम्, निर्बंधानामिदं ग्रन्थं, प्रकर्षेण मा मर्यादया उच्यन्ते जीवादयो यत्र तत् प्रावचनम्, सत्यं सङ्गयो हितम्, नयदर्शनमपि स्वविषये सत्यं स्वादित्यत आहनास्योत्तरं अस्त्यनुत्तरम्, यथास्थित सर्ववस्तुप्रतिपादकत्वादुत्तमम् ॥ ३० ॥ अन्यदप्येवं भविष्यतीत्याह
केवलिये पडिपुन | आउयं । संसुद्धं । सलगत्तणं ॥ ३१ ॥
कैव लिकं केवलमसहायमद्वितीयमित्यर्थः, नाऽपरमित्थंभूतमिति यावत्, केवलमेव कैबलिकम्, प्रतिपूर्ण मोक्षप्रापकगुणैर्भृतम्, नैयायिकम् न्यायोपपन्नम्, सं सामस्त्येन शुद्धम्, एकांताऽकलंकमित्यर्थः, शल्यकर्त्तनं भवहेतुमायादिशल्यच्छेदकम् । - ॥ ३१ ॥ परमतनिषेधनार्थमाह
सिद्धिमग्गं । मुत्तिमग्गं । निज्जाणमग्गं । निवाणमग्गं । अवितमविसंधि । सङ्घदुक्खप्पहीणमग्गं ॥ ३२ ॥
सिद्धेहितार्थप्राप्तेर्मार्गः, मुक्तेः कर्मक्षयरूपाया मार्गः, एतेन हितार्थकेवलज्ञानादिविकलाः सकर्मकाश्च मुक्ता इति मतं निरस्तम् निरुपमं यानं निर्याणम्, सिद्धशिलेत्यर्थः, तस्य मार्गः, अनेन सर्वत्र मुक्तास्ति एंतीति मतं निरस्तम् । निर्वाणमात्यंतिकं सुखम्, तस्य मार्गः, अनेन निःसुखदुःखा मुक्तात्मान इति मतं निरस्तम्, अवितथं सत्यम्, अविसंधि अव्यवच्छिन्नम्, विदेहादिषु सदा भावात् । सर्वदुःखप्रक्षीणो मोक्षस्तस्य मार्गः ॥ ३२ ॥ परार्थकारणेन अस्य चिंतामणित्वमाह -
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥ १८ ॥
/ww.jainelibrary.org