________________
समणसुआदि विषयक
पवञ्च पण्णामपि आवश्यकानां समानमेव विधेयत्वं प्रतिपादितं प्राशप्रकाण्डैर्गणधरादिमिः, तथापि ऐदंयुगीनभव्यात्मनां पक्रजडत्वात् प्रतिपदं स्खलनासद्भावात् प्रतिक्रमणावश्यकस्य विशेषविधेयत्त्वं भावनीय मुमुक्षुभिः । अनादिकालत अद्यावधि सवे. प्वपि मुक्तियोग्यक्षेत्रेषु ये केचन सिद्धिं गतास्ते न पतिक्रमण विना, तत्रापि भरतादिषु दशक्षेत्रेषु प्रथमतीर्थपतिशासनवर्तिनो जीचा ऋजुजडाः, चरमजिनवरशासनान्तर्गताः जीवा वजडाः, एतेषां उभयशासनवर्तिजीवानां प्रतिक्रमणानि पञ्च, भद्रकाशाययत्त्वेऽपि प्रशादौर्बल्यादाद्यस्य यतीनां प्रमादजन्यस्खलनाबाहुल्यम् , अन्तिमस्य यतीनां तु वक्राशय-प्रशादौर्बल्य रूपोभयदोषसद्भावात् पुनः पुनः प्रमादजन्यस्खलनायाहुल्याति शयत्वम् । पतासां प्रमाद जातस्खलनानां विशोधनार्थमवश्यं प्रतिक्रमण विधेयम् ।
अस्मिन् प्रन्थे श्रमणप्रतिक्रमणोपयोगिसूत्राण्येव सावरिकानि मुद्रितानि सन्ति, देवसिक-रात्रिकप्रतिक्रमणोपयोगिसूत्रं तु| श्रमणानां 'पगामसिजाप सुतं' 'समण पडिक्कमणसुत्त' वा, सूत्रस्याद्यपदापेक्षया 'पगामसिजाए' इत्यभिधानम् , सूत्रस्याभिधेयस्य उपयोगस्य चाऽपेक्षया 'समणपडिकमणसुत्तं' इति द्वितीय सान्वर्थ नाम । यथा सर्वेऽपि गृहमेधिन उभयसन्ध्यं पातायनादिद्वारैः प्रविष्ट कचबरं सम्मार्जन्या गेहान्तादपनयति तथा स्वीकृतसंयमाः सर्वेऽपि साधवः प्रमादाद्याश्रवद्वारप्रविष्टकर्मकचवरापनयनाथ | उभयसन्ध्ये प्रत्यहमनेन प्रतिक्रमणसूत्रण प्रतिक्रान्ति विदधति निजात्मभुवनशुद्धिं च कुर्वते । उभयकालं शुद्धिसद्भावेऽपि पक्षान्ते गृहकोणकादिविशुद्धिः विशिष्टरोत्या संजायते तथव पक्षान्ते विधीयमानपाक्षिकप्रतिक्रमणे साधुभिर्विशिष्टप्रकारेण महावतादिविशोधियन सूत्रण विधीयते तत् पाक्षिकसूत्रम् । तस्मिन्नेव पाक्षिकप्रतिक्रमणे आचार्योपाध्यायादिगुरुवर्याणां विनयादिविषयकं यत् स्खलितं तद् येन सूत्रचतुष्टयेन प्रतिकाम्यते एतत् क्षामणकसूत्रम् । एवं चातुर्मासिक-सांवत्सरिक प्रतिक्रमणोयोपगिनी एते पाक्षि
किश्चित् प्रास्ताविकम्
2-%25A
Jain Education interINI
For Private & Personel Use Only
In
ww.jainelibrary.org