SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ॥७५॥ अप्यतो मे मार्गाऽविस्मृतये पावित्र्यादिकं किञ्चनमस्तु । तथा-' शीलसुगन्धाः साधवः, नाऽहम्' इति मे गन्धचन्दनादिग्रहणमस्तु । तथा-' व्यपगतमोहा मुनयः, अहं तु न ' इत्यतो मे मोहाऽऽच्छादितमतेः छत्रकं चिह्नमस्तु । तथा-' अनुपानत्काः श्रमणाः, मम च उपानहौ भवतः । तथा-' शुक्लाम्बरा निरम्बराश्च जिनकल्पिकादयः कषायाकलुषितमतयः यतयः, नाहमेवम्' अतो मे कषायकलुषितस्य धातुरक्तानि वस्त्राणि भवन्तु । तथा-' अवद्यभीरवः साधवो बहुजीवसमाकुलजलाssरम्भवर्जकाः, नाऽहमेवम्' अतो मे परिमितेन जलेन स्नानं पानं चाऽस्तु । एवं निजमत्यैव विकल्प्य पारिव्रज्यं प्रव्रजितः । ततस्तं विसदृशरूपं विलोक्य भूयो लोको धर्म पृच्छति ? । तत्पुरच साधुमार्ग प्ररूपयति । किमिति भवता साधुमार्गो नाऽऽश्रीयते ? इति प्रश्ने- ' श्रमणाः त्रिदण्डविरता अहं तु त्रिदण्डवान्' इत्यादि प्रागुक्तमेव प्रादुष्करोति । एवं च स्वदेशनारञ्जितान् अनेकराजपुत्रादिजनान् भगवतः शिष्यतया समर्पयति विहरति च भगवतैव सार्द्धम् । अन्यदा च भगवान् विहरन् मरीचिना समम् अयोध्यायां बहिः समवसृतः तत्र च वन्दनार्थमागतेन भरतेन पृष्टो भगवान् - हे प्रभो ! अस्ति कश्चिदपि एतावत्यां पर्षदि भरतक्षेत्रे भविता तीर्थकृत् जीवः ? इत्युक्ते । प्रभुराह - हे भरत ! मरीचिरेवाऽयं स्वाध्यायध्यानाऽऽसक्कोऽस्यामेवावसर्पिण्यां 'वीर'नामा चतुर्विंशतितमस्तीर्थकृत् । महाविदेहे 'मूका राजधान्यां ' प्रियमित्र 'नामा चक्रवर्ती । अत्रैव भरते ' त्रिपृष्ठ 'नामा पोतानाऽधिपतिः प्रथमो वासुदेवश्च भविष्यति इति प्रभुक्तमाकर्ण्य भरतः पुलकितवपुः प्रभुं प्रणम्य मरीचिमभिवन्दितुं याति गत्या च विनयेन त्रिःप्रदक्षिणीकृत्य वन्दते स्तौति च - 'भो मरीचे ! यावन्तो लाभाः ते त्वयैव लब्धाः । यतः - ' त्वं 'वीर' नामा चरम तीर्थकृत्, 'प्रियमित्र 'नामा चक्रवर्ती, ' Jain Educatimational For Private & Personal Use Only ॥७५॥ library.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy