________________
श्रीकल्प
किरणावली टीका व्या०२
॥७४॥
भगवता च नीचैर्गोत्रं भरतसुतमरीचिजन्मनि स्थूलसप्तविंशतिभवाऽपेक्षया तृतीयभवे निवद्धम् । तथाहि
पश्चिममहाविदेहे नयसारनामा ग्रामाऽधिपतिः। एकदा स्वाम्यादेशाद् दारुनिमित्तं सपाथेयोऽटव्यां गतः। तत्र च भोजनाऽवसरे भृतकैः उपनीतायां रसवत्या-'यदि कश्चिद् अतिथिमिलति तदा शोभनम् ' इति बुद्ध्या इतस्ततो विलोकयन् | सार्थभ्रष्टान् क्षुत्तटबाधिततनून् साधून् दृष्ट्वा हृष्टः- अहो ! मे भाग्यम्' इति रोमाञ्चिततनुः सादरं साधून आहूय विपुलया रसवत्या प्रत्यलाभयत् । भोजनादिना च कृतकृत्यीभूय साधुसमीपे गत्वा नत्वाऽथोवाच-चलन्तु भगवन्तो दर्शयामि मार्गम् । तदनु तेन सह चलद्भिः साधुभिः-'योग्योऽयम्' इति अवधार्य अध्वन्येव वृक्षाऽधः उपविश्य धर्मदेशनया सम्यक्त्वं :प्रापितः । स चाऽऽत्मानं धन्यमन्यः साधून् नत्वा स्वग्राम प्राप्तः। सः प्रान्ते च पश्चनमस्कृतिस्मृतिपुरस्सर मृत्वा-द्वितीये भवे सौधर्मकल्पे पल्योपमाऽऽयुः सुरः । ततः च्युतः-तृतीये भवे मरीचिनामा भरतसुतोऽभूत् । स चैकदा सबहुमानं देवेन्द्रादिविधीयमानं प्रथमजिनमहिमानं दृष्ट्वा श्रुत्वा च धर्म सम्यक्त्वलब्धबुद्धिः प्रबजितः। ततः सः स्थविराऽन्तिके अधीतकादशाङ्गीकः, अन्यदा ग्रीष्मकाले अस्नानादिना पीडितवपुः संयममार्गाद् उद्विग्नमनाः-'गृहे मे गन्तुमनुचितं, श्रामण्यगुणानपि मेरुगिरिसमभारान् वोढुम् अहम् अशकः' इति चिन्तापरः स्वकीयस्वरूपं प्रकटयन्नेव एतत्कुलिङ्गं चिन्तयति । तद्यथा-'श्रमणाः त्रिदण्डविरता :, अहं तु नैवम् । अतो मे त्रिदण्डिकं-त्रिदण्डचिह्नमस्तु । तथा-'श्रमणा लोचेन्द्रियाभ्यां द्रव्यभावाभ्यां मुण्डाः, नाऽहमेवम् ' अतो मे चुरमुण्डः, शिरसि शिखा च भवतु । तथा-'श्रमणाः सकलप्राणिवधाद्विरताः, अहं तु न' इत्यतः स्थूलप्राणिवधादेव मे विरतिरस्तु । तथा-'निष्किश्चनाः किल साधवः, नाऽहमेवम् ।
AAAAAAA
॥७४||
JainEducation.international
For Private & Personal Use Only
wronwanesbrary.org