________________
श्रीकल्प
किरणावर
टीका
शा.
-
'त्रिपृष्ठ 'नामा प्रथमो वासुदेवश्च भविष्यसि' इत्यादि प्रागुतं प्रादःकृत्य-न च ते पारिव्रज्यं वन्दे न चाऽपि तवेदं जन्म, किन्तु चरमः तीर्यकृद् भविष्यसि अतो वन्दे' इत्यादि मधुरामिः वाग्भिः स्तुत्वा नत्वा च पुनः पितरमभिवन्ध विनीता नगरी प्राप्तः । मरीचिरपि भरतवचनं श्रुत्वा हर्षोद्रेकात् त्रिपदीम् आस्फोटय नृत्यं कुर्वनिदमवोचत्
" जइ वासुदेवपढमो मूआइ विदेह चक्कवट्टित्तं । चरमो तित्थयराणं होउ अलं इत्ति मज्झ ॥१७९६॥ अहयं दसाराणं पिआ य मे चकवहिवंसस्स । अजो तित्थयराणां अहो ! कुलं उत्तम मज्झ ॥१७९७ । (विशे० आव० तथा नि०४३१-४३२) ॥ इति च जातिमदहेतुकं नीचैर्गोत्रं बद्धवान् । यदुक्तम्--
जाति-लाभ-कुलै-श्वर्य-बल-रूप-तपः-श्रुतैः । कुर्वन्मदं पुनस्तानि हीनानि लभते जनः ।। ( योग०४ प्र. १३)
तदनु मरीचिः भगवति निवृते साधुभिः सह विहरन् प्राग्वत् साधुभ्यश्च शिष्यान् समर्पयति । एकदा च तं ग्लानीभूतं शान कोऽपि साधुः प्रतिजागर्ति । सोऽचिन्तयद-अहो ! एते बहुपरिचिता अपि न प्रतिजाग्रति । यदि वा कथमेते कृतकृत्याः
स्वदेहेऽपि गतस्पृहाः संयमिनो मामीशमविरतं प्रतिजाग्रति ?। तस्माद् ‘रोगविमुकस्य ममैकं प्रति जागरकं प्रव्राजयितुं युक्तम् ' इतिचिन्तापरस्य तस्य एकदा नीरोगतायां सञ्जातायां 'कपिल 'नामा राजपुत्रो धर्मशुश्रूषया तदन्तिके समागतो निजदेशनया प्रतिबुद्धः। तेन प्रेरितो-'भो कपिल ! याहि साधुसमीपे प्रपद्यस्व च त्रैलोक्याऽलङ्कारं त्रैलोक्याऽग्यपदैकहेतुं
HALA
NARMA
॥७६।
Jain Educ
a
tional
For Private & Personal use only
Miterary.org