SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावर्ड टोका व्या०२ ॥७२॥ SHRECRPORRORRECORRESS जातहरिनाम्नः पुरुषाद् यो वंशः स तथेति ॥ ७॥ तथा चमरस्य-असुरकुमारराजस्य उत्पतनम्-ऊर्ध्वगमनं चमरोत्पातः । सोऽपि आकस्मिकत्वादाश्चर्यम् इति । श्रयते हि चमरचञ्चाराजधानीनिवासी चमरेन्द्रः अभिनवोत्पन्नः सन्नूर्ध्वमवधिना आलोकयामास । ततः स्वशीर्षोपरि सौधर्मव्यवस्थित शक्रं ददर्श । ततो मत्सराऽऽध्मातः शक्रतिरस्काराऽऽहितमतिः इहाऽऽगत्य भगवन्तं महावीरं छद्मस्थाऽवस्थम् एकरात्रिकी प्रतिमा प्रतिपन्नं सुंसुमारनगरोद्यानवतिनं सबहुमान प्रणम्य-" भगवन् ! त्वत्पादपङ्कजवनं मे शरणम् , अरिपराजितस्य" इति विकल्प्य विरचितघोररूपो लक्षयोजनमानशरीरः परिधरत्नं प्रहरणं परितो भ्रमयन् गर्जन आस्फोटयन् देवान् त्रासयन् उत्पपात । सौधर्माऽवतंसकविमानवेदिकायां पादन्यासं कृत्वा शक्रं चाऽऽक्रोशयामास । शक्रोऽपि कोपाजाज्वल्यमानस्फारस्फुलिङ्गशतसमाकुलं कुलिशं तं प्रति मुमोच । स च भयात् प्रतिनिवृत्य भगवत्पादौ शरणं प्रपेदे। शक्रोऽपि अवधिज्ञानाऽवगततद्व्यतिकरः तीर्थकराऽऽशातनाभयाच्छीघ्रमागत्य वज्रमुपसञ्जहार । बभाण च-"मुक्तोऽसि अहो ! भगवतः प्रासादात् नाऽस्ति मत्तः ते भयम्" इति ॥ ८॥ तथा अष्टाभिरधिकं शतं अष्टशतम् । अष्टशतं च ते सिद्धाश्च-निवृता अष्टशतसिद्धाः । इदमपि अनन्तकालजातम् इति आश्चर्यम् । परम्-"एतदुत्कृष्टाऽवगाहनामाश्रित्य मध्यमाऽवगाहनायां पुनरने कशोऽष्टोत्तरशतं सिद्धयति" इति नाऽऽश्चर्यम् । तच्चैवम् " रिसहो रिसहस्स सुआ भरहेण विधज्जिआओ नवनवइ । अट्ट य भरहस्स सुआ सिद्धिगया एगसमयंसि" ॥ ॥ CCOUGEHARMAEROFEROACA-. ॥७२॥ Jain Educal For Private & Personal use only A mlibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy