SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ॥७१॥ AALAREE वईमानस्य जम्भिकग्रामनगराद् बहिः उत्पन्न केवलस्य तदनन्तरं मिलितचतुर्विधदेवनिकायविरचितसमवसरणस्य भक्तिकुतूहलाऽऽकृष्टसमा याताऽनेकनराऽमरविशिष्टतिरश्वां सस्वभाषाऽनुसारिणाऽतिमनोहारिणा महाध्वनिना कल्पपरिपालनायैव धर्मकथा बभूव । यतो न केनाऽपि तत्र विरतिः प्रतिपन्ना । न चैतदपि तीर्थकृतः कस्याऽपि भूतपूर्वमिति । इदमाश्चर्यम् इति ॥ ४॥ ____ तथा कृष्णस्य-नवमवासु देवस्य अवरकङ्का-राजधानी गतिविषया जाता इत्यपि अजातपूर्वत्वादाश्चर्यम्-श्रूयते हि पाण्डवभार्या द्रौपदी धातकीखण्डभरतक्षेत्राऽपरकङ्काराजधानीनिवासिपमराजेन देवसामर्थ्यनाऽपहृता । द्वारवतीवास्तव्यश्च कृष्णो वासुदेवो नारदादुपलब्धतव्यतिकरः समाराधिनसुस्थिताऽभिधानलवणसमुद्राऽधिपतिदेवः पञ्चभिः पाण्डवैः सह द्वियोजनलक्षप्रमाणं जलनिधिमतिक्रम्य पमराज रणविमर्देन विजित्य द्रौपदीम् आनीतवान् । तत्र च कपिलनामा वासुदेवो मुनिसुव्रताऽभिधानतत्रत्यजिनात् कृष्णवासुदेवाऽऽयमनवार्तामुपलभ्य सबहुमानं कृष्णदर्शनार्थमागतः । कृष्णश्च तदा समुद्र ल्लङ्यति स्म । ततस्तेन पाञ्चजन्यः शशः पूरितः कृष्णेनाऽपि तथैव । ततः परस्परं शङ्खशब्दश्रवणमजायत इति ॥५॥ तथा भगवतो महावीरस्य वन्दनार्थम् अवतरणम् आकाशात् समवसरणभूम्यां चन्द्र-सूर्ययोः शाश्वतविमानोपेतयोः बभूव । इदमपि आश्चर्यम् इति ॥६॥ तथा हरे:-पुरुषविशेषस्य वंश:-पुत्रपौत्रादिपरम्परा हरिवंशः तल्लक्षणं यत्कुलं तस्योत्पत्तिः। कुलं हि अनेकधा, अतो हरिवंशेन विशिष्यते । एतदपि आश्चर्यमेव इति-श्रयते हि भरतक्षेत्राऽपेक्षया यत् तृतीयं हरिवर्षाऽऽख्यं मिथुन कक्षेत्रं । ततः केनाऽपि पूर्वविरोधिना व्यन्तराऽमरेण मिथुनकमेकं भरतक्षेत्रे क्षिप्तं । तच्च पुण्याऽनुभावाद् राज्यं प्राप्तं । ततो हरिवर्ष BAAPAASAऊन SARGAMANG ॥७ ॥ JainEducad For Private & Personal use only
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy