________________
श्रीकल्प
किरणार
| टीका व्या०
॥६८॥
"उवस्सग्ग गम्भहरणं इत्थीतित्थं अभाविआ परिसा । कण्हस्स अवरकंका अवयरणं चंद सूराणं ॥ १६७ ।।
हरिवंसकुलुप्पत्ती चमरुप्पाओ अ अट्ठसयसिद्धा । अस्संजयाण पूआ दस वि अणं तेण कालेण" ॥ १६८ ।। (स्थानाङ्गसूत्र ७७)-श्री अभयदेवसूरिकृतव्याख्या
उपमृज्यते-चाव्यते प्राणी धर्मादेभिः इति उपसर्गाः- देवादिकृतोपद्रवाः । ते च भगवतो महावीरस्य छद्मस्थाऽबस्थायां भूयांसोऽग्रे वक्ष्यमाणलक्षणा बभूवुः । केवल्यवस्थायामपि नमन्निखिलनरनाकिनिकायनायकस्याऽपि जघन्यतोऽपि कोटीसङ्ख्यभक्तिभरनिभराऽमरपट्पदपटलजुष्टपाद पद्मस्याऽपि विविधर्द्धिलब्धिमद्वरवि ने यसहस्रपरिवृतस्याऽपि स्वभावप्रशमितयोजनशतमध्यगतवैरमारिविड्वरदुर्भिक्षाद्युपद्रवस्याऽप्यनुत्तरपुण्यसम्भारस्याऽपि मनुष्यमात्रेणाऽपि चिरपरिचितेनाऽपि शिष्याऽऽभासेनाऽपि गोशालकेन कृत उपसर्गः, इदं च किल न कदाचिद् भूतपूर्वं । तीर्थङ्करा हि अनुत्तरपुण्यसम्भारतया नोपसर्गभाजनम् अपि तु सकलनराऽमरतिरश्चां सत्कारादिस्थानमेव इति अनन्तकालभावि अयमों लोकेऽद्भुतभूत इति ।
तत्र केवल्यवस्थायां गोशालककृतोपसों यथा-" एकदा भगवान् श्रीमहावीरः श्रावस्त्यां विहरति स्म गोशालकश्च । तत्र च गौतमस्वामी गोचरगतो बहुजनशब्दमश्रौषीद् यथा-'इह श्रावस्त्यां द्वौ जिनौ सर्वज्ञौ महावीरो गोशालकश्च' इति । श्रुत्वा भगवदन्तिकमागत्य गौतमो गोशालकोत्थानं पृष्टवान् । भगवाँचोवाच यथा-'अयं शरवणग्रामे गोबहुलब्राह्मणगोशालायां जातो मलिनाम्नो मखस्य सुभद्राऽभिधानतभार्यायाश्च पुत्रः। षड्वर्षाणि छद्मस्थेन मया साध विहृतोऽस्मत्त एवं बहुश्रुतीभूत इति नाऽयं जिनो न च सर्वज्ञः' इदं च भगवद्वचनमाकर्ण्य
॥६८
Jain Educa
Hernational
For Private & Personal use only
www.jainalbrary.org