SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ॥६७॥ तत्र - ( एवं खलु अरहंता वा चक्कवडी वा बलदेवा वा वासुदेवा वा ) एवं खलु अर्हन्तः चक्रवर्तिनः बलदेवाः वासुदेवाः वा ( उग्गकुलेसु वा ) उग्रा : - आदिदेवेन आरक्षकतया ये नियुक्ताः ( भोगकुलेसु वा ) भोगा:गुरुतया ये व्यवहृताः ( रायन्नकुलेसु वा ) राजन्या :- ये वयस्यतया स्थापिताः ( इक्खागकुलेमु वा ) इक्ष्वाकवःआद्यवंश्याः ( खत्तियकुले वा) क्षत्रिया- ये शेषप्रकृतितया स्थापिता राजकुलीनाः ( हरिवंसकुलेसु वा ) हरिवंश :- हरिवर्ष क्षेत्राऽऽनीतयुगलोद्भव इति । तत्कुलेषु ( अन्नयरेसु वा ) अन्यतरेषु इति ज्ञात-मल्लकि - लेच्छकिकौरव्यादिकुलेसु । तत्र ज्ञाताः - श्री ऋषभस्वजनवंशजाः इक्ष्वाकुवंशजा एव । नागा वा नागवंशजा भटाः शौर्यवन्तो योधाः । मलकिनो लेच्छकिन राजविशेषाः । कौरव्याः- तेभ्योऽपि विशिष्टाः कुरुवंशजाः । ( तहप्पगारेसु विसुद्धजाइकुलसेसु वा ) तथा प्रकारेषु विशुद्धजातिकुलवंशेषु । तत्र जातिः - मातृपक्षः कुलं - पितृसमुत्थं । विशुद्धे जातिकुले येषु ते च ते वंशाः- पुरुषाऽन्वयाश्च तेषु । ( आयाइंसु वा आयाइति वा आयाइस्संति वा ) जज्ञिरे जायन्ते जनिष्यन्ते ॥ १८ ॥ [' अस्थि पुण एसे' इत्यादित: 'निक्खमिस्संति वा ) इति यावत् ] तत्र - ( अस्थि पुण एसे वि भावे) अस्ति पुनरयमपि भावः - भवितव्यताssख्यः (लोगच्छेरयभूए) लोकाssश्वर्यभूत पदार्थः - ( अनंताहिं उस्सप्पिणी ओस्सप्पिणीहिं बताहिं ) अनन्तासु उत्सर्पिण्यवसर्पिणीसु व्यतिक्रान्तासु (समुप्पज्जइ ( १०० ) कदाचित् समुत्पद्यते । आश्चर्याणि चास्यामवसर्पिण्यां दश जातानि । तथाहि Jain Education International For Private & Personal Use Only ॥६७॥ library.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy