________________
।६९॥
SASSUOSISSA
बहुजनो नगर्यास्त्रिकचतुष्कादिषु परस्परं कथयामास 'गोशालको मखलिपुत्रो न जिनो न सर्वज्ञ' इदं च लोकोक्तिमाकर्ण्य गोशालकः कुपित आनन्दाऽभिधानं च भगवदन्तेवासिनं गोचरगतमपश्यत् तमवादीच-भो आनन्द ! एहि तावदेकमौपम्यं निशामय' यथा-केचन वणिजोऽर्थाऽर्थिनो विविधपण्यभृतशकटा देशान्तरं गच्छन्तो महाटवीं प्रविष्टाः। पिपासिताः, तत्र जलं गवेषयन्तः चत्वारि वल्मीकशिखराणि शाड्वलवृक्षकक्षस्याऽन्तरद्राक्षुः। क्षिप्रं चैकं विचिक्षिपुः ततोऽतिविपुलजलमवापुः। तत्पयो यावत् पिपासमापीतवन्तः पयःपात्राणि च पयसा परिपूरयामासुः। ततोऽपायसम्भाविना वृद्धेन निवार्यमाणा अप्यतिलोभाद् द्वितीयतृतीयशिखरे विभिदुः । तयोः क्रमेण सुवर्ण च रत्नानि च समासादयामासुः । पुनः तथैव चतुर्थ भिन्दानाः घोरविषमतिकायमञ्जनपुञ्जतेजसमतिचञ्चलजिह्वायुगलमनाकलनीयकोपप्रसरमहीश्वरं सङ्कट्टितवन्तः । ततोऽसौ कोपाद्वल्मीकशिखरमारुह्य मार्तण्डमण्डलमवलोक्य निर्निमेषया दृष्टया समन्तादवलोकयंस्तान् भस्मसाचकार । तन्निवारकवृद्धवाणिजकं तु न्यायदर्शी इति अनुकम्पया वनदेवता स्वस्थानं सञ्जहार इति । एवं त्वदीयधर्माऽऽचार्यमात्मीयसम्पदाऽपरितुष्टमस्मदवर्णवाद विधायिनमहं स्वकीयेन तपस्तेजसाध्यैव भस्मसात्करिष्यामि इति । एषः प्रचलितोऽहं त्वं तु तस्येममर्थमावेदय-" भवन्तं च वृद्धवाणिजमिव न्यायदर्शित्वाद् रक्षिष्यामि" इति श्रुत्वा असौ आनन्दमुनिः भीतो भगवदन्तिकमुपागत्य तं सर्वमावेदयत् । भगवताऽपि असौ अभिहितः-" एष आगच्छति गोशालकः ततः साधवः शीघ्रम् इतोऽपसरन्तु प्रेरणां च तस्मै कश्चिदपि माऽदाद् इति गौतमादीनां निवेदय" इति । तथैव कृते गोशालक आगत्य भगवन्तं प्रत्यभिधौ-" सुष्टु-शोभनम् आयुष्मन् ! काश्यप ! साधु आयुष्मन् ! काश्यप ! मामेवं
SAMACHAR
॥६९॥
Sain Educ
a
tional
For Privale & Personal use only
H
Dlibrary.org