________________
श्रीकल्प
॥६४॥
रागादिजेभ्यः । रागादिजयश्च तज्जयोपायज्ञानपूर्वक एव इत्यत आह-ज्ञायकेभ्यः- जानन्ति इति ज्ञायकाः तेभ्यः । यद्वाअन्यभव्यसत्त्वै रागादीन् सदुपदेशदानादिना जापयन्ति इति जापकाः तेभ्यः । अत एव ( तिष्णाणं तारयाणं ) तीर्णेभ्यो भवाऽर्णवं ज्ञानादिपोतेन । तारकेभ्यः अन्यानप्युपदेशवर्तिनः । (बुद्धाणं बोहयाणं ) अज्ञाननिद्राप्रसुप्ते जगत स्वसंविदितज्ञानेन जीवादितत्त्वं बुद्ध्यन्ते स्म इति बुद्धाः तेभ्यः । अन्यानपि बोधयन्ति इति बोधकाः तेभ्यः । (मुत्ताणं मोअगाणं) बाह्याभ्यन्तरपरिग्रहबन्धनात् कर्मबन्धनाद्वा मुक्ता इति तेभ्यः । अन्यानपि तद्वयान्मोचयितृभ्यः । एतानि विशेषणानि भवाऽवस्थामाश्रित्योक्तानि ।
अथ सिद्धावस्थामाश्रित्योच्यन्ते - ( सव्वण्णूणं ) सर्वज्ञेभ्यः - जीवस्वाभाव्यात् सर्वं वस्तुजातं प्रधानविशेषं गौणीकृतसामान्यं च केवलज्ञानेन जानन्ति इति सर्वज्ञाः तेभ्यः । (सव्वदरिसीणं) सामान्यप्रधानं गौणीकृतविशेषं च सर्व केवलदर्शनेन पश्यन्ति इति सर्वदर्शिनः तेभ्यः । प्रथमं सर्वज्ञेभ्यः इति विशेषणं च केवलिनामाद्यसमये ज्ञानं, द्वितीये दर्शनम् इति सूचनार्थम् । उभयमपि च वस्तु विषयीकुर्वद्वस्तु निरपेक्षमेव केवलिनां छद्मस्थानां तूभयं - सापेक्षं निरपेक्षं च । क्रमो पि प्रथमं दर्शनं पश्चाज्ज्ञानम् इति प्रसङ्गाद् बोध्यम् इति । (सिवम यलमरु अमणतमक्खयमव्याबाहमपुणरावित्ति ) (इत्यादि) शिवं - निरुपद्रवम् । अचल - स्वाभाविकप्रायोगिक चलनाऽभावात् । अरुजम् - आधिव्याध्यभावात् । अनन्तम्अनन्ताऽर्थविषयक ज्ञानमयत्वात् । अक्षयम्-अनाशं साऽऽद्यनन्तत्वात्, अक्षतं वा परिपूर्णत्वात् । अव्याबाधं- परेषां पीडाकारित्वाभावात् । अपुनरावृत्ति - पुनर्भवे ऽनवतारात् । ( सिद्धिगइनामधेयं) सिद्धि: - लोकान्तक्षेत्ररूपा सा चाऽसौ गतिव
Jain Education International
For Private & Personal Use Only
किरणा टीका
व्या०
॥६४
www.jainelibrary.org