________________
॥६३॥
अथ द्वितीयं व्याख्यानं प्रारभ्यते (धम्मवरचाउरंतचक्कवट्टीणं) धर्मवरचातुरन्तचक्रवर्तिभ्यः-त्रयः समुद्राः चतुर्थों हिमवान् इति चत्वारः क्षिते: अन्ताः तेषु प्रभुतया भवा इति चातुरन्ताः ते च ते चक्रवर्तिनश्च चातुरन्तचक्रवर्तिनः। धर्मेषु वरा:-श्रेष्ठाः तेषु चातुरन्तचक्रवर्तिन इव धर्मवरचातुरन्तचक्रवर्तिनः। यथाहि पृथिव्यां शेषराजाऽतिशायिनः चातुरन्त चक्रवर्तिनो भवन्ति । एवं भगवन्तोऽपि धर्मवरेषु-शेषप्रणेतृषु साऽतिशयाः प्रोच्यन्त इति तेभ्यः। यद्वा-अन्यकुतीथिकाऽपेक्षया धर्मवरेण नरकादिचतुर्गत्यन्तकरणाच्चतुरन्तेन मिथ्यात्वादिरिपूच्छेदकत्वाच्चक्रेणेव वर्तितुं शीलं येषां ते तथा तेभ्यः। ['दीवो ताणं' इत्यादि ] अत्र च प्रथमा चतुर्थ्यर्थ षष्ठयर्थतया योज्या । तत्र (दीवो) दीपः-समस्ताऽर्थप्रकाशकत्वाद् दीप इव दुःस्थितस्य संसारसागरान्तर्वतिप्राणिगणस्याऽऽश्वासहेतुत्वाद् द्वीप इव वा। (ताणं) अनर्थप्रतिहननहेतुत्वात् त्राणम् । (सरणं) अर्थसम्पादनहेतुत्वाच्च शरणम् । (गई ) गम्यते सुस्थित्यर्थ दुःस्थितैः आश्रीयते इति गतिः । (पइट्ठा) प्रतिष्ठन्त्यस्याम् इति प्रतिष्ठा-संसारगर्तपतत्प्राणिगणस्याऽऽधार इति । (अप्पडिहयवरनाणदंसणधराणं) अप्रतिहतवरज्ञानदर्शनधरेभ्यः-अप्रतिहते - कटकुटथादिभिः वरे-क्षायिके ज्ञानदर्शने-विशेषसामान्याऽवबोधरूपे धरन्ति इति तेभ्यः। ईदृशं ज्ञानदर्शनधारित्वम् आवरणाऽभावात् सम्पद्यत इत्याह-(विअदृछ उमाणं) व्यावृत्तछद्मभ्य:-व्यावृत्तं छद्म-घातिकर्माणि संसारो वा येभ्य इति तेभ्यः । तदभावस्तु रागादिजयादित्याह-(जिणाणं जावयाणं) जिनेभ्यः
॥६३।
Jain Education International
For Privale & Personal Use Only
www.jainelibrary.org