________________
किरण।
श्रीकल्प-| ॥६ ॥
! टीक व्या
लोकोत्तमेभ्यो लोकस्य-भव्यसङ्घातस्य उत्तमाः-चतुस्विंदतिशयोपेतत्वात् लोकोत्तमत्वमेवाह-( लोगनाहाणं) लोकनाथेभ्यः लोकस्य-भव्यलोकस्य नाथा:-योगक्षेमकारिणः । तत्राऽप्राप्तस्य सम्यग्दर्शनादेलम्भकत्वात् योगकारित्वं तस्यैव च प्राप्तस्य तत्तदुपद्वाऽभावाऽऽपादनेन पालकत्वात् क्षेमकारित्वमिति तेभ्यः। ताचिकं च नाथत्वं कथम् ? इत्याह(लोगहिआणं) लोकहितेभ्यः लोकस्य--एकेन्द्रियादिप्राणिगणस्य पश्चाऽस्तिकायाऽऽत्मकस्य वा तद्रक्षणप्रकर्षोंपदेशेन सम्यग् प्ररूपणतश्च हिता-अनुकूलवृत्तयस्तेभ्यः । नाथत्वं च भव्यानां यथाऽवस्थितवस्तुप्रदीपनेन स्यादित्याह(लोगपईवाणं) लोकप्रदीपेभ्यः लोकस्य-देशनायोग्यविशिष्टतिर्यग्नराऽमररूपस्योपदेशप्रभाभिमिथ्यात्वध्वान्तविध्वंसनेन | पदार्थसार्थप्रकृष्टप्रकाशकत्वात् प्रदीपा इव प्रदीपा इति तेभ्यः । (लोगपज्जोअगराणं) लोकप्रद्योतकरेभ्यः लोकस्यलोकाऽलोकरूपस्य समस्तवस्त्वाऽऽत्मकस्य केवलाऽऽलोकपूर्वकप्रवचनमरीचिमण्डलप्रवर्तनेन प्रद्योत-प्रकाशं कुर्वन्तीत्येवंशीला । यद्वा-लोकस्य-उत्कृष्टमतेः गणधरादिभव्यसत्वस्य प्रद्योतं-विशिष्टज्ञानशक्तिं तत्क्षणद्वादशाङ्गीविरचनाऽनुमेयां कुर्वन्तीति लोकप्रद्योतकरास्तेभ्यः । अनयोश्च पूर्वोक्तयोविशेषणयोद्रष्टदृश्यलोककृतो भेद इति । (अभयदयाणं) अभयदयेभ्यः सप्तभयहरणादभयं दयन्त इत्यभयदाः । सप्तभयस्थानानि त्विमानि
"इह-परलोका-ऽऽदाणमकम्हा-आजीवि-मरण-मसिलोगा। सत्त य भयठाणाई जिणेहिं सिद्धंतभणिआई ॥" (प्रवचनसारो० १३२०)। अथवा प्राणाऽन्तिकोपसर्गकारिष्वपि न भयं दयन्ते । अथवा अभया-सर्वप्राणिभयत्यागवती दया-कृपा येषां ते तथा तेभ्यः। अथ च यथाऽनर्थत्यागकारिणोऽमो तथाऽर्थप्रापका अपीत्याह-(चक्खुद्याण)
॥
६.
Jain Educ UIN l
ational
For Privale & Personal use only