SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ॥५९॥ “यदा मरुन्नरेन्द्रश्री-स्वया नाथोपभुज्यते । यत्र तत्र रतिनाम विरतवं तदाऽपि ते ॥४॥" (वीतरागस्तवः प्र. १२) इत्युक्तेः । वीर्यवान्--अपरिमितबलवत्त्वात् । प्रयत्न:-तपःकर्मादावुत्साहः । इच्छा-भवाजन्तूनामुदिधीर्षा । श्रीःचतुस्त्रिंशदतिशयरूपा। ऐश्वर्यम्-अनेकेन्द्रादिदेवकोटिसेव्यत्वं । ज्ञान-माहात्म्य-मुक्ति-रूप-धर्मवचं च प्रतीतमेव । (आइगराणं) इत्यादि आदिकरेभ्यः-श्रुतधर्मस्याऽर्थाऽपेक्षया नित्यत्वेऽपि शब्दाऽपेक्षया स्वस्वतीर्थेष्वादिकरणात् (तित्थयराणं) तीर्थकरेभ्यः-तीर्थ-'सङ्घ आद्यगणधरो वा' तत्करणात् (सयंसंबुद्धाणं) स्वयं सम्बुद्धेभ्यः-स्वयमेव | परोपदेशं विनैव सम्यग्तचाऽवबोधात् । कुत एवं ? यतः (पुरिसुत्तमाणं) पुरुषोत्तमेभ्यः-भगवन्तः संसारेऽपि वसन्तः सन्तः सदा पराऽर्थकृतो गौणीभूतस्वार्था उचितक्रियोपेता अन्याः कृतज्ञा देवगुरुमहामानिनो गम्भीराऽऽशया इत्यादि गुणगणाऽन्धितत्वात् । उतमत्वमेवोपमात्र येणाह-(पुरिससोहाणं) पुरुषसिंहेभ्य पुरुषाः सन्तः सिंहा || इव कर्मारिष्षतिक्रूरत्वात् परिपहेषु साऽवज्ञत्वात् उपसर्गेभ्यो निर्भयत्वाच्च पुरुषसिंहास्तेभ्यः। (पुरिसवर-पुंडरीआणं) पुरुषवरपुण्डरीकेभ्यः पुण्डरीकाणि च धवल कमलानि वराणि च तानि च वरपुण्डरीकाणि पुरुषा वरपुण्डरी-|| काणीव पुरुषवरपुण्डरीकाणि तेभ्यः । धवलकमलसदृशाश्च भगवन्तः कर्मपङ्के सम्भूता अपि दिव्यभोगजलेन | वर्दिताः त्यक्त्वा चोभयं जगल्लक्ष्मोनियासास्तियग्नराऽमरसेव्याश्च पुण्डरीकवर्द्धन्ते । धवलता चाऽमीषां सदाऽशुभमलरहितत्वादिति । एवं (पुरिसवरगंधहस्थीगं) पुरुषवरगन्धहस्तिभ्यः-'ईति-मारि-दुर्भिक्ष-परचक्रादि' क्षुद्रगजानां भगवद्विहारपवनगन्धादेव भङ्गात् । न चाऽमी पुरुषाणामेवोचमाः किन्तु सकलजीवलोकस्यापि इत्यत (लोगुत्तमाणं) JainEdur For Private & Personal use only wonloliary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy