________________
श्रीकल्प
करणावलं टीका व्या०१
॥५८॥
*
२२२ रनक
(तिक्खुत्तो) त्रिकृत्व:-त्रीन वारान् (मुद्धाणं धरणितलंसि निवेसेइ) मस्तकं धरणितले न्यस्यति (निवेसित्ता) न्यस्य (ईसिं पच्चुन्नमइ) ईषन्-मनाय् प्रत्युन्नमति-अवनतत्वं मुश्चति (पच्चुन्नमित्ता) अवनतत्वं मुक्त्वा (कडगतुडिअभियाओ भुआओ) कटकानि-कङ्कणानि त्रुटिताश्च-वाहुरक्षकास्ताभिः स्तम्भिते भुजे (साहरेइ)त्ति ऊर्ध्वं नयति-स्तम्भिकोपमे करोतीतिभावः। (साहरित्ता) ऊर्य नीत्वा (करयलपरिग्गहिंअं दसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी) द्वयोर्हस्तयोरन्योऽन्याऽन्तरिताऽङ्गुलिकयोः सम्पुटरूपतया यदेकत्र मीलनं सोऽञ्जलिस्तं करतलाभ्यां परिगृहीत:-निष्पादितस्तं <दशनख> आवर्तनम्-आवतः शिरस्याव? यस्य तम् । अलुक्समासश्चात्र, अत एव मस्तके कृत्वा। अथवा शिरसाऽप्राप्तम्-अस्पृष्टमेवमवादीत् ॥१४॥
नमुत्थु णमि' त्यादितः 'समुप्पजित्थे ति यावत् ]
तत्र (नमुन्थु णं) नमोऽस्तु इति सर्वत्र सम्बध्यते । सर्वत्र ‘णमिति वाक्यालङ्कारे । (अरहंताणं) चतुर्थ्यर्थे षष्ठी च प्राकृतत्वात् । ततोऽहन्ति शक्रादिकृतां पूजामित्यईन्तः तेभ्यो नम इति बहुवचनमद्वैतोच्छेदेन बहुत्वख्यापनार्थ, तथा कर्माऽरिहननात् (अरिहंताणं)। 'रुह जन्मनि' इति धातोः कर्मबीजाऽभावेन भवेऽप्ररोहणाद् (अरुहंताणं) इति पाठत्रयम् । अथ नामादि चतुर्विधानप्यर्हतः सामान्यतो नमस्कृत्य विशेषतो भावाऽर्हतः पृथग् नमस्कर्तुमाह-(भगवंताणं) इति ।
"भगोऽर्क-ज्ञान-माहात्म्य-यशो-चैराग्य-मुक्तिषु। रूप-वीर्य-प्रयत्ने-च्छा-श्री-धम्मै -श्वर्य-योनिषु ॥" (अभि०) इत्यर्कयोनिवर्जद्वादशाऽर्थभगयुक्तेभ्यः। तत्र यशस्वी-शाश्वतवैरिणामहि-मयूरादीनां वैरोपशमनात् । वैराग्यवान् -
SHRA
I
n५८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org