________________
-
॥५७॥
ट्रा प्रधानानि कटकानि च-कङ्कणानि । (तुडिय) त्रुटिताश्च-बाहुरक्षकाः (केजर) केयुराणि च-अङ्गदानि बाहुमूलभूषणानि । है। (मउड) मुकुटं च-किरीट (कुंडल) कुण्डले च-कर्णाऽऽभरणे यस्य स तथा । (हारविरायंतवच्छे) हारविराजद्वक्षाः 21 तदनु पदद्वयस्य कर्मधारयः (पालंब) प्रालम्बः-झुम्बनकं मुक्तामयं (पलंबमाण) प्रलम्बमानं-लम्बमानं (घोलंतभूसणधरे)
घोलच्च-दोलायमानं यद्भूषणम्-आभरणं तद् धारयति यः स तथा। (ससंभमं) ससम्भ्रम- सादरं (तुरिअं) त्वरितसौत्सुक्यं (चवलं) चपलं-वेगवच्च यथा स्यात्तथा। (सुरिंदे) सुरेन्द्रः (सीहासणाओ अब्भुढेइ) सिंहासनादभ्युत्तिष्ठति (अब्भुढेत्ता) अभ्युत्थाय (पायपीढाओ) पादपीठतः (पच्चोरुहइ) प्रत्यवरोहति-अवतरतीत्यर्थः। (पच्चोरुहित्ता) प्रत्यवतीय (वेरुलिअवरिट्ठरिट्ठअंजण) वैडूर्येण मध्यवर्तिना वरिष्ठे-प्रधाने रिष्ठाऽञ्जने-रत्नविशेषौ ययोस्ते तथा । (निउणोविअ) निपुणेन-कुशलेन शिल्पिना परिकर्मिते । अत एव (मिसिमिसिंत) त्ति । चिकिचिकायमाने । (मणिरयणमंडियाओ) मणिभिः-चन्द्रकान्तादिभिः रत्नश्च-कर्केतनादिभिः मण्डिते ये ते तथा । ततः पदत्रयस्य कर्मधारयः । एवं विधे (पाउआओ) पादुके (ओमुअइ) अवमुञ्चति । (ओमुइत्ता) अवमुच्य (एगसाडिअ) ति । एकखण्डशाटकमयं
(उत्तरासंगं करेइ) उत्तरासङ्ग-बैकक्षं करोति (करित्ता) कृत्वा च (अंजलिमउलिअग्गहत्थे) अञ्जलिना-अञ्जलिकरणतो 6. मुकुलितौ-मुकुलाऽऽकृती कृतावग्रहस्तौ येन स तथा । (तित्थयराभिमुहे सत्तट्ठ पयाई अणुगच्छइ) तीर्थकराऽभिमुखं |
सप्ताऽष्टपदानि अनुगच्छति (अणुगच्छित्ता वामं जानूं) अनुगम्य वाम जानुं (अंचेई) ति आकुश्चयति-उत्पाटयति (अंचित्ता) आकुश्चय (दाहिणं जाणुं धरणितलंसि) दक्षिणं जानुं धरणितले (साहटु) ति संहृत्य-निवेश्य
RSS
मा॥५७॥
Sain Educat
For Private & Personal use only
Abrary.org