SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ |५३॥ USAREERSALADS SSESS श्रेष्ठी श्रीमुनिसुव्रतस्वाम्यन्तिके प्रव्रज्याऽधीतद्वादशाङ्गीको द्वादशाऽब्दैः सौधर्मेन्द्रो बभूव । गैरिकोऽपि निजकधर्मतस्तद्वाहनमैरावणाख्यं जातः । ततः कार्तिकोऽयमिति ज्ञात्वा पलायमानं तं धृत्वा शक्रोऽधिरूढवान् । स च शक्रमापनार्थ शीर्षद्वयं विचकृवान् । शक्रोऽपि द्विमूर्तिकः । पुनरपि स चतुःशीर्षः। इन्द्रोऽपि चतुर्मुत्तिरित्यादि यावदवधिना विज्ञाय शक्रेण तर्जितो भीतः सन् तदुचितमेव रूपं विहितवानिति । इति कार्तिकश्रेष्ठी कथा ।। (सहस्सक्खे) सहस्राक्ष:-पश्चमन्त्रिशताऽक्षणामिन्द्रकार्यप्रवृत्तत्वात् । (मघवं) मघा-महामेघा देव विशेषा वा वशे सन्त्यस्य स मघवा । (पागसासणे) पाका:-बलवन्तो वैरिणस्तान् पाको वा-दानवविशेषस्तं शास्तीति पाकशासनः । (दाहिणड्ढलोगाहिबई) दक्षिणाऽद्धलोकस्याऽधिपतिः मेरोदक्षिणतः सर्वस्याऽपि तदधीनत्वात् । ( एरावणवाहणे) ऐरावणः-गजरूपः सुरविशेषो वाहनं यस्य । (सुरिंदे) सुराणामिन्द्रः-आल्हादकः । अथवा शोभना रा-दीप्तिः येषां ते सुराः तेषु इन्द्रः-श्रेष्ठः। (बत्तीसविमाणसयसहस्साहिवई) <द्वात्रिंशद्विमानानां> शतसहस्राः-लक्षाः तेषामधिपतिः । ( अरयंबरवत्थधरे ) अरजांसि-निर्मलानि यानि अम्बरवस्त्राणि-स्वच्छतयाऽऽकाशकल्पवसनानि तानि धरतीति । (आल इअमालमउडे) आलगितौ-यथास्थाने निवेशितौ मालामुकुटौ येन । अथा आलिङ्गितमालं मुकुटं यस्य । (नवहेमचारचित्तचंचल कुंडलविलहिज्जमाणगल्ले) नाभ्यामिव-प्रत्यग्राभ्यामिव हेम्नः सत्काभ्यां चारुभ्यां चित्राभ्यां चञ्चलाभ्याम्-इतस्ततश्चलनपराभ्यां कुण्डलाभ्यां विलिख्यमानौ गल्लौ यस्य । (महड्डीए) महती ऋद्धि:-छत्रादिराजचिह्नरूपा यस्य । (महज्जुईए) महती द्युतिः-आभरणादिसम्बन्धिनी, युतिर्वा उचितेष्टवस्तुघटनारूपा यस्य । (महाबले) Pl॥ ५३॥ Jain EducM For Private & Personal use only library.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy